Book Title: Fundamental of Ancient Indian Music and Dance
Author(s): Sureshchandra Benarji
Publisher: L D Indology Ahmedabad

Previous | Next

Page 110
________________ Appendix E 1JI वेलावली मारहाटी सप्तैता रागयोषितः । गेया मध्याह्नकाले तु यथा भरतभाषितम् ॥ गान्धारी दीपिका चैव कल्याणी पूरवी तथा । आशोयारी कानडा च गौरी केदारपाहिडा । माधवी मालसी लाटी भूपाली सिन्धुजा तथा । सायाहूने रागिणीश्चैताः प्रगायन्ति चतुर्दश ॥ पुरुषा वस्त्रभूषाद्या रागाः षण्मालवादयः । प्रदोषाद् दशदण्डान्तर्गया गानस्य रीतयः ।। दशदण्डात् परं रात्रौ सर्वेषां गानमीरितम् । मेघमल्लाररागस्य गानं वर्षासु सर्वदा ॥ श्रीपञ्चमीसमारभ्य यावद दुर्गामहोत्सवः । तावद् वसन्तरागस्य गानमुक्तं मनोषिभिः ।। सर्वेषामिह रागाणां रागिणीनां च सर्वशः । रङ्गभूमौ नृपाज्ञायां कालदोषो न विद्यते ॥ रागं चैवालपेत् पूर्व तत्पत्नी तदनन्तरम् । नान्यपत्न्यः प्रगातव्या नृपाज्ञायां न दूषणम् ॥ रागाः षडथ रागिण्यः षडिन्द्रियश्चारुविग्रहः । आगता ब्रह्मसदसि ब्रह्माण समुपासते ।। अथ रागध्यानमाहनितम्बिनीचुम्बितवक्त्रपद्मः शुकद्युतिः सद्गुणवानप्रमत्तः । संगीतशास्त्रानुरत. प्रदोषे मालाधरो मालव एष रागः ।। नीलोत्पलं कर्णयुगे वहन्ती श्यामा सुकेशी कृशमध्यभागा । ईषत्सहासाम्बुजवक्त्ररम्या सा धोनसी पद्मसुचारुनेत्रा ।। करे विधूताम्बुजयुग्मरम्या इतस्ततश्चारु. विलोकयन्ती । कण्ठे स्फुरन्मौक्तिकरत्नहारा सा मालसो संकथिता विचित्रा । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130