Book Title: Fundamental of Ancient Indian Music and Dance
Author(s): Sureshchandra Benarji
Publisher: L D Indology Ahmedabad

Previous | Next

Page 109
________________ 100 Fundamentals of Ancient Indian Music and Dance (II) पञ्चमसंहितायां रागनिर्णयः ताशब्देनोच्यते गौरी नाशब्देनोच्यते हरः । तानेति शब्दहुंकारात् प्रोक्तोऽप्यन्ये शनैः शनैः ।। तत्तत्कालं सुविज्ञाय दम्पत्योर्गायनं बुधः । एतयोनिमात्रेण त्रैलोक्यं वशमानयेत् ।। अत्र रागाःमालवश्चैव मल्लारः श्रीरागश्च वसन्तकः । हिन्दोलश्चाथ कर्णाट एते रागाः षडीरिताः ॥ एतेषां स्त्रियःधानसी मालसी चैव रामकिरी च सिन्धुजा । आशोआरी भैरवी च मालवस्य प्रिया इमाः ।। वेलावली च पूरवी कानडा मायूरी तथा । कोड़ा केदारिका चापि मल्लारस्य प्रिया इमाः ॥ गान्धारी च तथा गौरी सुभगा च कुमारिका । वेलोयारी च वैरागी श्रीरागस्य प्रिया इमाः ।। तुडी च पञ्चमी चैव ललिता पटमञ्जरी । गुर्जरी च विभाषा च वसन्तस्य प्रिया इमाः ।। माधवी देविका चैव देशकारी च पाहिडा । वडरी! मारहाटी च एता हिन्दोलयोषितः ।। नाटिका चाथ भूपाली...... रामकेलिका । कामोदा चाथ कल्याणी कर्णाटस्य प्रिया इमाः ।। समयानुक्रमेण बोद्धव्यम्आहिरी ललिता चैव कामोदा पटमअरी । रामकेली रामकिरी वेलोयारी च गुर्जरी ।। देशकारी च सुभगा पञ्चमी च गता तुडी । भैरवी चैव कौमारी रागिण्यो दश पञ्चम ।। एताः पूर्वाह्नकाले तु गीयन्ते गायकैर्बुधैः । वडारी माधवी... वैरागी चापि धानसी ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130