Book Title: Dharmabindu
Author(s): Luigi Suali, Chintaharan Chakravarti
Publisher: Royal Asiatic Society

View full book text
Previous | Next

Page 177
________________ सप्तमोऽध्यायः। इति ॥ प्रभूतानि प्रचुराण्यदाराण्युदयाणि किं पुनरन्यथारूपाणौत्यपिशब्दार्थः । तस्य पूर्वोकजीवस्य भोगसाधनानि पुरपरिचारान्तःपुरादौनि। उदारसुखसाधनान्येव इत्युत्तरेण योगः । कुत इत्याह प्रयत्नोपनतत्वात् अयत्नेनात्युगाढपुण्य प्रकर्षोदयपरिपाकाक्षिप्तत्वात्तथाविधपुरुषकाराभावेनोपनतत्वा- 8 ट्ठौकितत्वात् । तदपि कुत इत्याह प्रासङ्गिकत्वात् कृषिकरणे पलालस्येव प्रसङ्गोत्पन्नत्वात् । एतदपि अभिष्वङ्गाभावात् भरतादौनामिव निविडड्यभावात् । अयमपि कुत्सिताप्रवृत्तेः कुमितेषु नौतिमार्गोत्तीर्णषु भोगसाधनेम्वप्रवृत्तेः। इयमपि शुभानुबन्धित्वात् मोक्षप्राप्तिनिमित्तार्यदेशदृढसंहननादि- 10 कुशलकार्यानुबन्धविधायित्वात् । किमित्याह उदारसुखसाधनान्येव उदारस्यान्यातिशायिनः सुखस्यैव शरीरचित्ताहादरूपस्य साधनानि जनकानि न विहलोकपरलोकयोरपि दुःखस्येति। अत्रैव तात्त्विकं हेतमाह बन्धहेतुत्वाभावेन बन्धस्य कुगतिपातहेतोरशुभकर्मप्रकृतिलक्षणस्य हेतुत्वं हेतुभावः 16 प्रक्रान्तभोगसाधनानामेव तस्याभावेन । ददमुक्तं भवति । प्रभूतोदाराण्यपि भोगसाधनानि बन्धहेतुत्वाभावाददारसुखसाधनान्येव भवन्ति। बन्धहेतुत्वाभावश्चायनोपनतत्वादिकादुत्तरोत्तरहेतुबौजभूताद्धेतपञ्चकादिति ॥ बन्धहेतुत्वाभावमेव विशेषतो भावयन्नाह । ON अशुभपरिणाम एव हि प्रधानं बन्धकारणं तदङ्गतया तु बाह्यम् ॥३३॥

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207