Book Title: Dharmabindu
Author(s): Luigi Suali, Chintaharan Chakravarti
Publisher: Royal Asiatic Society

View full book text
Previous | Next

Page 187
________________ १०] अटमोऽध्यायः । २५६ क्षयं करोतीति तन्मतं न तु यथा कार्मग्रन्थिकाभिप्रायेणाविरतसम्यग्दध्याद्यन्यतरगुणस्थानकचतुष्टयस्थ इति ॥ ततो मोहसागरोत्तारो मोहो मिथ्यात्वमोहादिः स एव सागरः स्वयंभूरमणादिपारावारो मोहसागरस्तस्मादुत्तारः परपारप्राप्तिः। ततः केवलाभिव्यकिः केवलस्य केवलज्ञानकेवल- 6 दर्शनलक्षणस्य जौवगुणस्य ज्ञानावरणादिघातिकर्मोपरतावभिव्यकिराविर्भावः । ततः परमसुखलाभः परमस्य प्रकृष्टस्य देवादिसुखातिशायिनः सुखस्य लाभः प्राप्तिः । उनं च । यञ्च कामसुखं लोके यच दिव्यं महासुखम् । वीतरागसखस्येदमनन्तांशे न वर्तते ॥ इति ॥ 10 अत्रैव हेतुमाह। सदारोग्याप्तेः॥६॥ इति ॥ सदारोग्यस्य भावारोग्यरूपस्याप्तेाभात् ॥ इयमपि कुत इत्याह । भावसंनिपातक्षयात् ॥१०॥ 15 इति ॥ भावसंनिपातस्य पारमार्थिकरोगविशेषस्य चयादुच्छेदात् ॥ संनिपातमेव व्याचष्टे ।

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207