Book Title: Dharmabindu
Author(s): Luigi Suali, Chintaharan Chakravarti
Publisher: Royal Asiatic Society
View full book text
________________
३१]
अटमोऽध्यायः।
२५६
ततोऽप्युपक्रियमाणभव्यप्राणिनां यस्यात्तदाह । सानुबन्धसुखभाव उत्तरोत्तरः प्रकामप्रभूतसत्त्वोपकारायावन्थ्यकारणं निर्दृतेः ॥२७॥
इति ॥ सानुबन्धसुखभाव उत्तरोत्तर उत्तरेषु प्रधानेषत्तरः प्रधानः प्रकामः प्रौढः प्रभूतोऽतिबहुर्यः सत्त्वोपकारः । तस्मै संपद्यते स चावन्ध्यकारणमवन्ध्यो हेतुर्निवतेर्निर्वाणस्य ॥ निगमयन्नाह ।
इति परं परार्थकरणम् ॥ २८॥ इति ॥ इत्येवं यथा प्रागुनं परं परार्थकरणं तस्य भगवत इति ॥ सांप्रतं पुनरप्यभयोः साधारणं धर्मफलमाह ।
भवोपग्राहिकर्मविगमः ॥ २६ ॥ इति ॥ परिपालितपूर्वकोव्यादिप्रमाणसयोगकेवलिपर्याययोरन्ते भवोपग्राहिकर्मणां वेदनौयायुर्नामगोत्ररूपाणं विगमो नाशो जायते ॥
10
15
ततः ।
निर्वाणगमनम् ॥ ३० ॥ इति ॥ निर्वान्ति देहिनोऽस्मिन्निति निर्वाणं सिद्धिक्षेत्र जीवस्यैव स्वरूपावस्थानं वा। तत्र गमनमवतारः ॥ तत्र च ।
पुनर्जन्माद्यभावः ॥ ३१ ॥
20

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207