SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ ३१] अटमोऽध्यायः। २५६ ततोऽप्युपक्रियमाणभव्यप्राणिनां यस्यात्तदाह । सानुबन्धसुखभाव उत्तरोत्तरः प्रकामप्रभूतसत्त्वोपकारायावन्थ्यकारणं निर्दृतेः ॥२७॥ इति ॥ सानुबन्धसुखभाव उत्तरोत्तर उत्तरेषु प्रधानेषत्तरः प्रधानः प्रकामः प्रौढः प्रभूतोऽतिबहुर्यः सत्त्वोपकारः । तस्मै संपद्यते स चावन्ध्यकारणमवन्ध्यो हेतुर्निवतेर्निर्वाणस्य ॥ निगमयन्नाह । इति परं परार्थकरणम् ॥ २८॥ इति ॥ इत्येवं यथा प्रागुनं परं परार्थकरणं तस्य भगवत इति ॥ सांप्रतं पुनरप्यभयोः साधारणं धर्मफलमाह । भवोपग्राहिकर्मविगमः ॥ २६ ॥ इति ॥ परिपालितपूर्वकोव्यादिप्रमाणसयोगकेवलिपर्याययोरन्ते भवोपग्राहिकर्मणां वेदनौयायुर्नामगोत्ररूपाणं विगमो नाशो जायते ॥ 10 15 ततः । निर्वाणगमनम् ॥ ३० ॥ इति ॥ निर्वान्ति देहिनोऽस्मिन्निति निर्वाणं सिद्धिक्षेत्र जीवस्यैव स्वरूपावस्थानं वा। तत्र गमनमवतारः ॥ तत्र च । पुनर्जन्माद्यभावः ॥ ३१ ॥ 20
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy