Book Title: Dharmabindu
Author(s): Luigi Suali, Chintaharan Chakravarti
Publisher: Royal Asiatic Society
View full book text
________________
२५७
पठमोऽध्यायः।
२२]
मरप्रभुप्रभृतिप्रभूतसत्त्वसंपादितायाः पूजायाः सकाशाद्भूयसां भगनां मोक्षानुगुणो महानुपकारः संपद्यत इति ॥
तथा।
प्रातिहार्योपयोगः ॥२०॥ इति ॥ प्रतिहारकर्म प्रातिहार्यम् । तच्चाशोकवृक्षादि। । यदवाचि । अशोकवृक्षः सुरपुष्पवृष्टि
दिव्यो ध्वनिश्चामरमासनं च । भामण्डलं दुन्दुभिरातपत्रं
सत्प्रातिहार्याणि जिनेश्वराणाम् ॥ १॥ 10 तस्योपयोग उपजीवनमिति ॥ ततः ।
परं परार्थकरणम् ॥ २१॥ इति ॥ परं प्रकृष्टं परार्थस्य परप्रयोजनस्य सर्वसत्त्वस्वभाषापरिणामिन्या पौयूषपानसमधिकानन्ददायिन्या सर्वतोऽपि 15 योजनमानभूमिभागयायिन्या वाण्या अन्यैश्च तैस्तैश्चिरुपायैः करणं निष्पादनमिति ॥
एतदेव अविच्छेदेन इत्यादिनेति परं परार्थकरणं एतदन्तेन सूत्रकदम्बकेन स्फुटौकुर्वन्नाह ।
अविच्छेदेन भूयसां मोहान्धकारापनयनं हृद्यै- 20 वचनभानुभिः ॥२२॥

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207