________________
सप्तमोऽध्यायः।
इति ॥ प्रभूतानि प्रचुराण्यदाराण्युदयाणि किं पुनरन्यथारूपाणौत्यपिशब्दार्थः । तस्य पूर्वोकजीवस्य भोगसाधनानि पुरपरिचारान्तःपुरादौनि। उदारसुखसाधनान्येव इत्युत्तरेण योगः । कुत इत्याह प्रयत्नोपनतत्वात् अयत्नेनात्युगाढपुण्य प्रकर्षोदयपरिपाकाक्षिप्तत्वात्तथाविधपुरुषकाराभावेनोपनतत्वा- 8 ट्ठौकितत्वात् । तदपि कुत इत्याह प्रासङ्गिकत्वात् कृषिकरणे पलालस्येव प्रसङ्गोत्पन्नत्वात् । एतदपि अभिष्वङ्गाभावात् भरतादौनामिव निविडड्यभावात् । अयमपि कुत्सिताप्रवृत्तेः कुमितेषु नौतिमार्गोत्तीर्णषु भोगसाधनेम्वप्रवृत्तेः। इयमपि शुभानुबन्धित्वात् मोक्षप्राप्तिनिमित्तार्यदेशदृढसंहननादि- 10 कुशलकार्यानुबन्धविधायित्वात् । किमित्याह उदारसुखसाधनान्येव उदारस्यान्यातिशायिनः सुखस्यैव शरीरचित्ताहादरूपस्य साधनानि जनकानि न विहलोकपरलोकयोरपि दुःखस्येति। अत्रैव तात्त्विकं हेतमाह बन्धहेतुत्वाभावेन बन्धस्य कुगतिपातहेतोरशुभकर्मप्रकृतिलक्षणस्य हेतुत्वं हेतुभावः 16 प्रक्रान्तभोगसाधनानामेव तस्याभावेन । ददमुक्तं भवति । प्रभूतोदाराण्यपि भोगसाधनानि बन्धहेतुत्वाभावाददारसुखसाधनान्येव भवन्ति। बन्धहेतुत्वाभावश्चायनोपनतत्वादिकादुत्तरोत्तरहेतुबौजभूताद्धेतपञ्चकादिति ॥
बन्धहेतुत्वाभावमेव विशेषतो भावयन्नाह ।
ON
अशुभपरिणाम एव हि प्रधानं बन्धकारणं तदङ्गतया तु बाह्यम् ॥३३॥