________________
२४४
धर्मबिन्दुः सटीकः।
[सू० ३४
10
इति ॥ अशुभपरिणाम एव हिर्यस्मात् प्रधानं मुख्यं बन्धकारणं नरकादिफलपापकर्मबन्धनिमित्तं न वन्यत्किंचित् । तदङ्गतया त्वशुभपरिणामकारणतया पुनर्बाह्यमन्तःपुरपुरादि बन्धकारणमिति ॥ कुत इत्याह ।
तदभावे बाह्यादल्पबन्धभावात् ॥३४॥ . इति । तदभावेऽशुभपरिणामाभावे बाह्याज्जीवहिंसादेरल्पबन्धभावात्तुच्छबन्धोत्पत्तेः ॥ एतदपि कथमित्याह ।
वचनप्रामाण्यात् ॥३५॥ इति ॥ वचनस्यागमस्य प्रामाण्यात्प्रमाणभावात् ॥ एतदेव भावयन्नाह ।
बाह्योपमर्देऽप्यसंज्ञिषु तथा श्रुतेः ॥ ३६॥
इति ॥ बाह्यः शरीरमात्रजन्यः स चासावुपमर्दश्च बहु16 तमजीवोपघातरूपस्तत्रापि किं पुनस्तदभाव इत्यपिशब्दार्थः ।
असंज्ञिषु संमूर्छजमहामत्स्यादिषु तथाल्पतया बन्धस्य श्रुतेः " अस्मन्नौ खलु पढमं” इत्यादेवचनस्य सिद्धान्ते समाकर्णनात् । तथाहि । असंजिनो महामत्स्यादयो योजनसहस्रादिप्रमाण
शरीराः स्वयंभूरमणमहासमुद्रमनवरतमालोडयमानाः पूर्व20 कोट्यादिजौविनोऽनेकसत्त्वसंघातसंहारकारिणोऽपि रत्नप्रभा
पृथिव्यामेवोत्कर्षतः पल्योपमासंख्येयभागजीविषु चतुर्थप्रतरवर्ति