________________
३६]
सप्तमोऽध्यायः ।
२४५
।
मारकेषु जन्म लभन्ते न परतः । तन्दुलमत्स्यस्तु बाह्योपमर्दाभावेऽपि निर्निमित्तमेवापूरितातितीवरौद्रध्यानोऽन्तर्मुहर्तमायुरनुपाल्य सप्तमनरकथिव्यां त्रयस्त्रिंशत्मागरोपमायुर्नारक उत्पद्यत इति परिणाम एव प्रधानं बन्धकारणमिति सिद्धं भवतौति ॥
एवं सति यदन्यदपि सिद्धिमास्कन्दति तद्दर्शयति। एवं परिणाम एव शुभो मोक्षकारणमपि ॥ ३७॥
इति ॥ एवं यथाशुभवन्धे तथा परिणाम एव शुभः सम्यग्दर्शनादिर्मोक्षकारणमपि मुक्तिहेतरपि किं पुनर्बन्धस्येत्यपिशब्दार्थः ॥
कुत इत्याह ।
10
तदभावे समग्रक्रियायोगेऽपि मोक्षासिद्धेः ॥३८॥
इति ॥ तस्य शुभपरिणामस्थाभावे समग्रक्रियायोगेऽपि परिपूर्णश्रामण्योचितबाह्यानुष्ठानकलापसंभवेऽपि किं पुनस्तदभाव इत्यपिशब्दार्थः । मोनासिद्धेर्निर्वाणानिष्यत्तेरिति ॥
एतदपि कुत इत्याह ।
16
सर्वजीवानामेवानन्तशो ग्रैवेयकोपपातश्रवणात्
॥३६॥ इति ॥ सर्वजीवानामेव सर्वेषामपि व्यवहारार्हाणां प्राणिनामनन्तशोऽनन्तान् वारान् ग्रेवयकेषु विमानविशेषेषपपातस्योत्पत्तेः श्रवणाच्छास्त्रे समाकर्णनात् ॥