Book Title: Dharmabindu
Author(s): Luigi Suali, Chintaharan Chakravarti
Publisher: Royal Asiatic Society

View full book text
Previous | Next

Page 181
________________ 88]. सप्तमोऽध्यायः। तथा। धर्मश्चिन्तामणिः श्रेष्ठो धर्मः कल्याणमुत्तमम् । हित एकान्ततो धर्मो धर्म एवामृतं परम् ॥४३॥ इति ॥ एतन्निगदसिद्धमेव । परं यत्पुनः पुनर्धर्मशब्दोपादानं तद्धर्मस्यात्यन्तादरणीयताख्यापनार्थमिति ॥ तथा । चतुर्दशमहारत्नसद्भोगान्वृष्वनुत्तमम् । चक्रवर्तिपदं प्रोक्तं धर्महेलाविजृम्भितम् ॥४४॥ इति ॥ चतुर्दशानां महारत्नानां सेनापतिग्टहपतिपुरोहितगजतुरगवर्धकिस्त्रौचक्रच्छत्रचर्ममणिकाकिणोखगदण्डलक्षणानां 10 सद्भोगात्परानपेक्षितया सुन्दरभोगानृषु' नरेषु मध्येऽनुत्तम सर्वप्रधानम् । किं तदित्याह चक्रवर्तिपदं चक्रधरपदवी प्रोक्र प्रतिपादितं सिद्धान्ते धर्महेलाविजम्भितं धर्मलौलाविलमितमिति ॥ इति श्रीमुनिचन्द्रसूरिविरचितायां धर्मबिन्दुवृत्तौ धर्मफल- 16 विधिः सप्तमोऽध्यायः समाप्तः ॥ ७॥ १ B omits from सुन्दरभोगा° down to धर्म हेलाविष्टम्भितं ।

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207