________________
88].
सप्तमोऽध्यायः।
तथा।
धर्मश्चिन्तामणिः श्रेष्ठो धर्मः कल्याणमुत्तमम् । हित एकान्ततो धर्मो धर्म एवामृतं परम् ॥४३॥
इति ॥ एतन्निगदसिद्धमेव । परं यत्पुनः पुनर्धर्मशब्दोपादानं तद्धर्मस्यात्यन्तादरणीयताख्यापनार्थमिति ॥
तथा ।
चतुर्दशमहारत्नसद्भोगान्वृष्वनुत्तमम् । चक्रवर्तिपदं प्रोक्तं धर्महेलाविजृम्भितम् ॥४४॥ इति ॥ चतुर्दशानां महारत्नानां सेनापतिग्टहपतिपुरोहितगजतुरगवर्धकिस्त्रौचक्रच्छत्रचर्ममणिकाकिणोखगदण्डलक्षणानां 10 सद्भोगात्परानपेक्षितया सुन्दरभोगानृषु' नरेषु मध्येऽनुत्तम सर्वप्रधानम् । किं तदित्याह चक्रवर्तिपदं चक्रधरपदवी प्रोक्र प्रतिपादितं सिद्धान्ते धर्महेलाविजम्भितं धर्मलौलाविलमितमिति ॥
इति श्रीमुनिचन्द्रसूरिविरचितायां धर्मबिन्दुवृत्तौ धर्मफल- 16 विधिः सप्तमोऽध्यायः समाप्तः ॥ ७॥
१ B omits from सुन्दरभोगा° down to धर्म हेलाविष्टम्भितं ।