________________
अष्टमोऽध्यायः ॥
व्याख्यातः सप्तमोऽध्यायः । अधुमाष्टम भारभ्यते । तस्य चेदमादिसूत्रम् ।
किं चेह बहुनोक्तेन तीर्थकृत्त्वं जगद्धितम् ।
परिशुद्धादवाप्नोति धर्माभ्यासान्नरोत्तमः॥१॥ 5 इति ॥ किं च इत्यन्यच्चये। दूह धर्मफलचिन्तायां बहुना प्रचुरेणोकेन धर्मफलेन यतस्तौर्थकृत्त्वं तीर्थकरपदलक्षणं जगद्धितं जगज्जन्तुजातहिताधानकरं परिशुद्धादमलौमसादवाप्रोति लभते धर्माभ्यासात्प्रतीतरूपानरोत्तमः स्वभावत एव
सामान्यापरपुरुषप्रधानः। तथाहि तीर्थकरपदयोग्यजन्तनां 10 सामान्यतोऽपि लक्षणमिदं शास्त्रेषदृष्यते । यथा एते
श्राकालं परार्थव्यसनिन उपसर्जनौकृतम्वार्था उचितक्रियावन्तोऽदौनभावाः सफलारम्भिणोऽदृष्टानुशयाः कृतज्ञतापतयोऽनुपहतचित्ताः देवगुरुबहुमानिनस्तथा गम्भौराशया इति ॥
ननु यदि तीर्थकृत्त्वं धर्मादवाप्नोति तथापि कथं तदेव 15 प्रकृष्टं धर्मफलमिति ज्ञातुं शक्यमित्याह ॥
नातः परं जगत्यस्मिन्विद्यते स्थानमुत्तमम् । तीर्थकृत्त्वं यथा सम्यक् स्वपरार्थप्रसाधकम् ॥२॥
इति ॥ न नैवातस्तौर्थकृत्त्वात्परमन्यज्जगत्यस्मिन्बुपलभ्यमाने चराचरस्वभावे विद्यते समस्ति स्थानं पदमुत्तमं प्रकृष्टं तीर्थ