SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ अशमोऽध्यायः। २४६ छत्त्वमुक्तरूपं यथा येन प्रकारेण सम्यग्यथावत् स्वपरार्थप्रसाधक सपरप्रयोजननिष्पादकम् ॥ एतदेव भावयति ॥ पञ्चस्वपि महाकल्याणेषु त्रैलोक्यशङ्करम् । तथैव स्वार्थसंसिया परं निर्वाणकारणम् ॥३॥ 6 इति ॥ पञ्चस्खपि न पुनरेकस्मिन्नेव क्वचिन्महाकल्याणेषु गर्भाधानजन्मदिनादिषु त्रैलोक्यशङ्करं जगत्त्रयसखकारि। तीर्थकृत्त्वम् इत्यनुवर्तते । इत्थं परार्थसाधकत्वमुक्त्वा स्वार्थसाधकत्वमाह । तथैव त्रैलोक्यमुखकरणप्रकारेण स्वार्थसंसिया क्षायिकसम्यग्दर्शनज्ञानचारित्रनिष्पत्त्या परं प्रधानं निर्वाण- 10 कारणं मुक्तिहेतुरिति ॥ इत्युक्तप्रायं धर्मफलम्। इदानौं तच्छेषमेवोदग्रमनुवर्णयिष्यामः ॥ ४ ॥ दति ॥ सुगममेव। परं तच्छेषम् इति धर्मफलशेषम् । एतदेव दर्शयति ॥ 16 तच्च सुखपरंपरया प्रकृष्टभावशुद्धेः सामान्यचरमजन्म तथा तीर्थकृत्त्वं च ॥५॥ इति ॥ तच तत्पुनर्धर्मफलशेषमुदग्रं परंपरयोत्तरोत्तरक्रमेण प्रकृष्टभावशुद्धः सकाशात् । किमित्याह सामान्यचरमजन्म सामान्यं तीर्थकरातीर्थकरयोः समानं चरमजन्म अपश्चिम- 20
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy