Book Title: Dharmabindu
Author(s): Luigi Suali, Chintaharan Chakravarti
Publisher: Royal Asiatic Society

View full book text
Previous | Next

Page 184
________________ धर्मबिन्दुः सटौकः। [सू० ६ देहलाभलक्षणम् । तथा इति पक्षान्तरोपक्षेपे । तीर्थवावं तीर्थकरभावलक्षणम् । चः समुच्चये ॥ तत्राक्लिष्टमनुत्तरं विषयसौख्यं होनभावविगम उदग्रतरा संपत् प्रभूतोपकारकरणम् आशय5 विशुद्धिर्धर्मप्रधानता अवन्थ्यक्रियात्वम् ॥ ६ ॥ इति ॥ तत्र सामान्यतश्चरमजन्मनि । अक्लिष्टं परिणाममुन्दरमनुत्तरं शेषभोगसौख्येभ्यः प्रधानं विषयसौख्यं शब्दादिसेवालक्षणम् । हौनभावविगमो जातिकुलविभववयोवस्थादि न्यूनतारूपहौनत्वविरहः। उदग्रतरा प्राग्भवेभ्योऽत्यन्तोचा संपद् 10 द्विपदचतुष्पदादिसमृद्धिः। तस्यां च प्रभूतस्यातिभूयिष्ठस्योप कारस्थ स्वपरगतस्य करणं विधानम्। अत एवाशयस्य चित्तस्य विशुद्धिरमालिन्यरूपा। धर्मप्रधानता धर्मेकसारत्वम्। अतिनिपुणविवेकवशोपलब्धयथावस्थितसमस्तवस्तुतत्त्वतया प्रवन्ध्या अनिष्फला क्रिया धर्मार्थाद्याराधनरूपा यस्य तद्भावस्तत्त्वम् ॥ 16 तथा । विशुद्ध्यमानाप्रतिपातिचरणावाप्तिः तत्सात्यभावो भव्यप्रमोदहेतुता ध्यानसुखयोगोऽतिशयर्द्धिप्राप्तिः ॥ ७॥ इति ॥ विशड्यमानस्य संक्लिश्यमानविलक्षणतया अप्रति20 पातिनः कदाचिदप्यभ्रंशभाजः चरणस्य चारित्रस्यावाप्तिाभः ।

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207