Book Title: Chaturvinshati Prabandh Author(s): Hiralal R Kapadia Publisher: Farbas Gujarati Sabha View full book textPage 9
________________ પ્રસ્તાવના श्रीहेमचन्द्र इत्यासीत् , सरिभूरिगुणः स तु । ग्रन्थलक्षविनिर्माता, निर्ग्रन्थानां विशेषकः ॥ ८॥ प्रतिबोध्य सिद्धभूधव-मुद्दण्डैः कनकदण्डकलशैर्यः । उत्तंसितवान् परितः, स्वदेशपरदेशचैत्यानि ॥ ९ ॥ पतिवर्ष जीवरक्षा-मशोत्यहमशीत्यहम् । यस्योपदेशात् सिद्धेश-स्ताम्रपत्रेष्वलीलिखत् ॥ १० ॥ श्रीश्रीचन्द्रमुनीन्द्रो, विबुधेन्दुमुनिश्च तस्य वंश्यौ द्वौ । यौ 'लाट'देशमुद्रा-मुज्झित्वा जगृहतुर्दीक्षाम् ॥ ११ ॥ श्रीचन्द्रसरिशिष्यः, श्रीमुनिचन्द्रः प्रभुः शुचिचरित्रः । 'चौलुक्य 'मानलनृपं, वाग्मी प्रवाजयामास ॥ १२ ॥ तत्क्रमिको देवप्रभ-मूरिः किल पाण्डवायनचरित्रम् । श्रीधर्मसारशास्त्रं, च निर्ममे सुकविकुलतिलकः ॥ १३ ॥ तदीयसिंहासनसार्वभौम--सूरीश्वरः श्रीनरचन्द्रनामा । सरस्वतीलब्धवरप्रसाद-विद्यमुष्टिन्धवधीबभूव ॥ १४ ॥ टिप्पनमनध्यराघव-शास्त्रे किल टिप्पनं च कन्दल्याम् । सारं ज्योतिषमभद्, यः प्राकृतदीपिकामपि च ॥ १५ ॥ तस्य गुरोः प्रियशिष्यः, प्रभुनरेन्द्रप्रभः प्रभावाढ्यः । योऽलङ्कारमहोदधि-मकरोत् काकुत्स्थकेलिं च ॥ १६ ॥ राजानः प्रतिबोधिताः कति कति ग्रन्थाः स्वयं निर्मिताः ___ वादीन्द्राः कति निर्जिताः कति तपास्युप्राणि तप्तानि च । श्रीमद्धर्षपुरीय'गच्छमुकुटैः श्रीसूरिसुत्रामभि:-- स्तच्छिष्यैर्मुनिभिश्च वेत्ति नवरं वागीश्वरी तन्मतिम् ।। १७ ॥ नरचन्द्रसरिवंशे, सूरिः श्रीपद्मदेव इत्यासीत् । सूरिः श्रीश्रीतिलक-स्तस्य मृगेन्द्रासने जयति ॥ १८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 266