Book Title: Chaturvinshati Jin Stuti
Author(s): Vinaysagar
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 22
________________ कालं कलंकविकला मुदितप्रभावा । या संस्तुता सुखचयं तनुते च दीर्षकालं कलं कविकला मुदितप्रभावा ॥२॥ श्रीमजिनेश ! शिवदा गदितार्थसार्था, गौ रातु शं सितमहा भवतो समोहा । प्रोत्तारयेच्छ्रितजनानिह यानव-या, गोरा तु शंसित महाभवतोऽसमोहा ॥३॥ गांधारि पातु भवती नवती रिताका, सं-या महारि हरिणी नयनादरामा । पाण्योः सुवज्रमुशले दधती द्विरूपे, सायाम हारिहरिणी नयना-दरा-मा ॥४॥ ब्याख्या-पद्मराग विभया पद्मराग कात्या रुचिरा । अतएव जितेना जितसूर्यारकत्वात् सा मूर्तिः यासि तनुते । विनता प्रणता नुता स्तुप्ता च सती। किंभूता अस्तायापारा अया अत्रीः आपत् कष्टं मरो मरणं एतानि अस्तानि निरस्तानि यया सा । अस्तायापद्मरा अजिता अपराभूता इना स्वामिनी ॥१॥ ___ सा जैनपद्धतिः जिनश्रेणिः कालं अस्यात् क्षिपतु । किंभूता अनुद्धता बुद्धिर्यस्याः सा। किंभूता कलंकरहिता पुनः किंभूता हर्षितातिशया या स्तुसा। सुखसमूहं विस्तारवतीति । दीर्घकालं मोक्षलक्षणं च । अपरं कविकलां तनुते । कलं मनोशं उदयवतीं प्रभां भवतीति उक्ति प्रभावा ॥२॥ हे जिनेश ! भवतस्तव गौर्वाणी शं सुखं रातु ददातु । किंभूता सितमहा सिता उज्वला महा उत्सवाः यस्याः सा। किंभूता असमोहानसमोहा असमोहा हेशंसित ! हे स्तुत ! या गौः महाभवतः महासंसारात् श्रितजनान् प्रोत्तारयेत् बानवत् पोतवत । गौरा उज्वला । किंभूता असमोहा असमा ऊहा वितर्का यस्याः

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51