Book Title: Chakshurprapyakaritawad
Author(s): Punyapalsuri
Publisher: Parshwabhyuday Prakashan
View full book text
________________ 192 सन्दर्भग्रन्थाः . सूत्र:- अनेकद्रव्यसमवायादूपविशेषाच्च स्त्योपलब्धिः // 36 // ___ अनेकद्रव्येण समवायाद्रूपविशेषाच्च रूपोपलब्धिरिति / अत्र रूपविशेषग्रहणेन रूपधर्म उद्भवसमाख्योऽभिधीयते न रूपत्वं रूपान्तराद्रूपं विशिनष्टि अपि तूद्भवो विशेषकत्वाद्विशेष इत्युच्यते यथा ब्राह्मणविशेष इति न ब्राह्मणत्वं ब्राह्मणविशेषः एवं समानजातीयविशेषकत्वं यत् तद्विशेष इत्युच्यते, उद्भवश्च कार्यगम्यः यस्याभावाद्विषक्तावयवमाप्यं द्रव्यं हेमन्ते न गृह्यते तैजसञ्च ग्रीष्मे यस्य भावात् प्रदीपरश्मिरुपलभ्यते आदित्यरश्मिश्च, स उद्भवो नाम विशेषः स तस्मिन्नायने रश्मौ रूपविशेषो नास्तीत्यतश्चाक्षुषो रश्मिनॊपलभ्यते दृष्टश्च तेजसो धर्मभेद: / चतुर्विधञ्च तेजो भवति उद्भूतरूपस्पर्श यथाऽऽदित्यरश्मिः / उद्भूतरूपमनुद्भूतस्पर्ध्वं यथा प्रदीपरश्मिः / उभयं च प्रत्यक्षम् रूपस्योद्भूतत्वात् / उद्भूतस्पर्शमनुद्भूतरूपं यथा वारिस्थितं तेजः / अनुद्भूतरूपस्पर्शं यथा नायनं तेजः / उभयं चाप्रत्यक्षम् रूपस्यानुद्भूतः // सूत्रः- कर्मकारितश्चेन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः // 37 // कर्मकारितश्चेन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः / शेषं भाष्ये / रूपस्पर्शानभिव्यक्तिश्च व्यवहारप्रक्लृप्तार्था-यदि नायनो रश्मिरुद्भूतस्पर्शो भवेत् तेन दृश्यविशेषेवेऽनेकरश्मिसन्निधाने सति द्रव्यं दह्येत अनेकरश्मिसन्निपाते च सति व्यवहितत्वाद् द्रव्यस्यानुपलब्ध्या भवितव्यम् / अथ मन्यसे यथादित्यरश्मिसम्बद्धेर्थे नायनो रश्मिर्न व्यवधीयते एवं रश्म्यन्तरसन्निपातेऽपीति ? / तन्न व्यतिभिद्यार्थग्राहकत्वात् व्यतिभिद्यादित्यरश्मि तत्सम्बद्धेन द्रव्येण सम्बद्ध्यते उद्भूतरूपस्पर्शवत्त्वे च चक्षुषो यस्य पूर्वं सन्निपतितं चक्षुस्तदितरेण व्यवहितमपि नार्थं गृह्णीयात् / अथानेकरश्मिसन्निपाते सति समानजातीयद्रव्येभ्यो द्रव्यान्तरं रश्मिरुत्पद्यत इति / एवं सति समग्रासमग्रचक्षुषोस्तुल्योपलम्भः प्राप्नोति / न चैतदिष्टमनुपलब्धेरिति व्यवहारक्लृप्त्यर्थं च नायनस्य रश्मेरनुद्भूतरूपस्पर्शवत्त्वमिति / सर्वद्रव्याणां विश्वरूपो व्यूहः पुरुषार्थकारित इति / कर्म च धर्माधर्मरूपं चेतनस्योपभोगार्थमिति / / सूत्रः- अव्यभिचाराच्च प्रतीघातो भौतिकधर्मः // 38 // ___ अव्यभिचारी तु प्रतीघातो भौतिकधर्मः / भौतिकं चक्षुः कुड्यादिभिः प्रतीघातदर्शनात् घटादिवदिति / अप्रतीघातादभौतिकमिति चेत् ?-अथ मन्यसे यदि प्रतीघाताद्भौतिकमप्रतीघातादभौतिकम् दृष्टश्चाप्रतीघातः काचाभ्रपटलस्फटिकान्तरितोपलब्धेः ? नानेकान्तात्प्रदीपरश्मिवत् भौतिकस्याप्रतीघात: यथा- प्रदीपरश्मेरिति / स्थाल्यादिषु च पाचकस्य तेजसोऽप्रतीघातादिति / उपपद्यते चानुपलब्धिः कारणभेदात्
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/32665d59032120e42617ceb8bbd1789c69f75ea9b66f6d29912b34a2705df2f1.jpg)
Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268