Book Title: Chakshurprapyakaritawad
Author(s): Punyapalsuri
Publisher: Parshwabhyuday Prakashan

View full book text
Previous | Next

Page 242
________________ 216 - सन्दर्भग्रन्थाः वस्तत्वन्वितकिरणानि वस्तुप्रतिमासहितानि प्रत्यावृत्त्य नेत्रे बाह्यपटीयकृष्णमण्डलमासाद्य केन्द्रितानि भूत्वाऽन्तः प्रविश्य तत्रत्यरसद्वारा वक्रीभूय तारकामासाद्य तदन्तर्दृक्टोपरि व्युत्क्रान्तप्रतिमां संक्रामयन्ति, तां च समुत्क्रान्तां सन्मुखं चाक्षुषज्ञानतन्तवो मस्तिष्कं प्रापयन्ति, तद्विषयकं मनोमायायोगादात्मनि प्रत्यक्षं भवतीति / येषां तु दुक्काचो ह्वस्वो दीर्धलम्बो वा तेषां किरणानि प्रतिमां दुक्पटे न पातयन्ति अतो बाह्यगोलोपनेत्राणि चाऽपेक्षन्ते, इत्येवं गोलकव्याप्तं नेत्रेन्द्रियं स्वाऽऽगतामेव प्रतिमां गृह्णातीति बोध्यम् / / 60 // // तर्कभाषा व्याख्या // वस्त्विति / सम्बन्धार्थज्ञान जनकानीत्यर्थः मात्रपदप्रवेशाच्च भावस्थलमादाय न सिद्धसाधनमिति ध्येयं / हेतौ ज्ञानपदम् प्रत्यक्षपरम् परमाण्वदौ व्याप्ति ज्ञानादौ चव्यभिचारवारणाय। ननु घटेव्यभिचार इत्यत आह - यद्वेति / // तर्कभाषा - सारमञ्जरी टीका // नन्विन्द्रियाणां स्वसम्बद्धत्वमत आह - नन्विति / तथाच यदर्थज्ञानकरणत्वं यत्र तत्र तदर्थसम्बद्धत्वमिति व्याप्तिः / अभावासम्बद्धत्वेन् / भावज्ञानकरणत्वाभाव इन्द्रिये सिद्धः / व्यापकाभावे व्याप्याभावावश्यकत्वादित्यर्थः / अत एव भूतलादिसम्बन्धित्वेऽपि न क्षतिः / ननु वहन्यनुमिति करणज्ञाने व्यभिचारः / तस्य वढ्याद्य सम्बद्धत्वादत आह - यद्वेति / नन्वेतवतापि इन्द्रियत्वव्यापकं वास्तुप्राप्यज्ञानकारित्वम् / तच्चाधिकरणादिसम्बन्धेनापि सम्भवति इति इन्द्रियेणाभावग्रहे न बाधकमिति चेन्न / इन्द्रियनिष्ठं यदर्थज्ञानकरणत्व तदर्थसम्बन्धव्याप्यम् / यथा त्वगिन्द्रियनिष्ठज्ञानजनकत्वम् / तथाचाभावज्ञानजनकत्वाभावश्चक्षुः श्रोत्रयोः साध्यः अभावासम्बन्धित्वात् / यदर्थसम्बद्धमिन्द्रियं यत् तत् तदर्थज्ञानाजनकम् / यथा त्वगिन्द्रियम् / यद्वा इन्द्रियजन्यज्ञानविषयत्वमिन्द्रियसम्बन्धव्याप्यम् / अभावे व्यापकाभावेन व्याप्याभाव सिद्धिः /

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268