Book Title: Chakshurprapyakaritawad
Author(s): Punyapalsuri
Publisher: Parshwabhyuday Prakashan
View full book text
________________ विभाग-८ 229 ग्रहादीनां प्रत्यक्षं भवत्येव / स्पष्टं चेदं परमाराध्यश्रीगुरुचरणैः कृतायां वाक्यपदीयब्रह्मकाण्ड टीकायामम्बाकाम् / प्राप्यकारित्वमतेऽन्धत्वप्रसक्तिनिरासः नन्वस्मिन् प्राप्यकारित्वमते चक्षुषो विषयदेशे गमने सति प्राणिनामन्धत्वं प्रसज्यते, चक्षुषोऽभावादिति चेत्, न, चक्षुषो विषयेण सह यः सन्निकर्षस्तस्य सन्ततत्वमिति भाष्यसिद्धान्तस्य पूर्वमुल्लिखितत्वात् / श्रीवाचस्पतिमिरैरपि अस्यैव सिद्धान्तस्यानुसृतत्वाच्च / तथा चोक्तं सांख्यतत्त्वकौमुद्यां टिप्पणे वृत्तिः सम्बन्धविशेषः, स चानुच्छिन्नमूलो न तूच्छिन्नमूलः, निर्गताऽप्यच्छिन्नमूला चक्षुःसन्ततिः कार्याय समर्था न छिन्नमूला इति / एतेन "यदि च चक्षुः प्राप्यार्थं गृह्णीयात्तदोन्मील्य निमीलितनयनोऽपिख्यं पश्येत्" इति निराकृतं भवति / अन्धत्वादिप्रसङ्गोऽपि निरस्तो वेदितव्यः / परीक्षितं तावद् इन्द्रियाणां विषयसन्निकर्षे विषयाकारवृत्तिरूपा प्रत्यक्षप्रमा / तत्र चक्षुषो विषयदेशे गमनेन प्राप्यकारिता, अन्येषां तत्र गमनाभावेनाप्राप्यकारिता, विषयस्यैव इन्द्रियदेशे प्राप्तौ सत्यां प्राप्यकारिता वेति / // व्याकरणमहाभाष्यम् // . इह तावत्प्रासादात्प्रेक्षते शयनात्प्रेक्षते इति, अपक्रामति तत्तस्माद्दर्शनम् / यद्यपक्रामति किं नाऽत्यन्तायाऽपक्रामति ? संततत्वात् अथ वा अन्यप्रादुर्भावात् अन्या चान्या च प्रादुर्भवति / // प्रदीपटीका // दर्शनं चक्षुरिन्द्रियं तेजोरूपं प्राप्य विषयग्राहित्वात्प्रासाददेशादपक्रम्य विषयं गच्छतीत्यर्थः / क्षणिकपक्षावष्टम्भेन भेदमाश्रित्याह-अथ वाऽन्यान्यप्रादुर्भावादिति / अन्यस्याऽन्यस्य तेजोरूपस्येन्द्रियस्योत्पादादित्यर्थः / भाष्यकारवचनप्रामाण्यादन्यान्यशब्दस्य साधुत्वं दृष्टव्यम् / // उद्योतटीका // दर्शनं चक्षुरिति / करणे ल्युडिति भावः / तेजोस्पमिति / अपक्रमणसामर्थ्यमनेन दर्शितम् / विषयग्राहिणो नयनरश्मयः सूर्यरश्मिवत्प्रासाददेशस्थपुरुषनयनादपक्रम्य यावद्विषयदेशं गच्छन्तीत्यर्थः / एवं च प्रासादात्प्रेक्षते चक्षुः प्रासादादपक्रम्य विषयं जानीते इत्यर्थः / प्रासादस्थपुरुषान्निर्गमनं प्रासादादिति व्यवहियते इति बोध्यम् / 'प्रासादमारुह्य भुङ्क्ते' इत्याद्यर्थे प्रासादाद्भुङ्क्त इत्यादीनामनभिधानमिति बोध्यम् / प्रासादस्थपात्रान्निर्गतमन्नं भुङ्क्ते इति भाष्यरीत्यार्थ इत्यन्ये / प्राप्यविषयग्राहित्वादिति / 'परावरयोगे चेति वत्वा / बौद्धो यथाकथंचिद्विभागो बोध्यः / भाष्ये-अन्याऽचान्या चेति / दर्शनक्रियेत्यर्थः / 'अपक्रामति तस्माद्दर्शन'मिति दर्शनपदेन
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/7a1a58ce63fa6d3bf8b9a918e8d2e3ac7a2976918aadc3592d677149dddbffbe.jpg)
Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268