Book Title: Chakshurprapyakaritawad
Author(s): Punyapalsuri
Publisher: Parshwabhyuday Prakashan
View full book text
________________ विभाग-८ 231 चक्षुषः प्राप्यकारित्ववादिनो नैयायिकादयस्तु रश्मिमात्रं चक्षुरिति / तत्र यदा सन्तमसेऽवस्थितो लोक आलोकवति बहिर्देशे स्थितं द्रव्यमुपलभते, तदा नयनरश्मयः सूक्ष्मा नयनात् सन्ततं निर्गत्य तेज:परमाणूनां व्यापित्वेन सर्वत्र सुलभत्वाद् अन्तरालवर्तिभिस्तेजःपरमाणुभिः सम्बध्यमानाः सूक्ष्मतरं रश्मिद्रव्यान्तरं पृथ्वग्रमारभमाणस्तावद् गच्छन्ति यावदालोकः / तत आलोकेन तेषां चक्षुः स्वरूपभूतानां रश्मीनां संस्कार इति कल्प्यते।। यत्तु चक्षुषः प्राप्यकारित्वे सूर्यमण्डलग्रहकाले मध्येमार्ग स्थितानां ग्रहान्तराणामपि चाक्षुषत्वप्रसङ्ग इत्यापादनम्, तन्न, परिमाणाल्पत्वेन दूरत्वदोषेण च तदग्रहात् / अस्ति च दूरत्वदोषे सत्यपि सूर्यमण्डलग्रहे परिमाणभेदस्तच्चाक्षुषत्वहेतुः / दृश्यते च पञ्चषपदपरिच्छिन्नेऽपि देशेऽदूरस्थितानां पुत्तिकादीनामग्रहणं दूरस्थितानां घटादीनाञ्च ग्रहणं परिमाणभेदेन / दृश्यते च तत्रैव स्थितानां पुत्तिकादीनामुपनेत्रोपकृतेन चक्षुषां ग्रहणम् / एवं सूर्यमण्डलग्रहकाले मध्येमार्ग स्थितानामल्पपरिमाणानामपि ग्रहाणामुपनेत्रविशेषोपकृतेन यन्त्रविशेषोपकृतेन वा चक्षुषां ग्रहणं भवत्येव / / इदं त्ववधेयम्-रात्रौ गव्यूत्यादिव्यवहितानामपि प्रदीपप्रकाशानां सुदूरस्थितानामपि च. नक्षत्रादीनां चक्षुषा ग्रहणं भवति, मध्येमार्ग स्थितानां तु तत्तत्पदार्थानां तमसावृतानां ग्रहणं न भवति / तेन ज्ञायते नयनरश्मीनामालोकानुग्रहतदभावावेव तत्तत्पदार्थानां तत्र ग्रहणाग्रहणहेतू इति / एवं चेदमायातम् येषामप्राप्यकारि चक्षुस्तेषामालोकेन विषय एव प्रायेणानुगृह्यते / प्राप्यकारित्वे तु चक्षुषस्तुल्यजातीयेन आलोकतेजसा नयनरश्मीनामनुग्रहः क्रियते / आलोकस्य विषया-नुग्राहकत्वे तु न कस्यापि विप्रतिपत्तिरिति // // वैयाकरणसिद्धान्तलघुमञ्जुषा रत्नप्रभा टीप्पणम् // अत्र बौद्धा:गोलकमेव चक्षुः, अप्राप्यप्रकाशकारित्वात् / चक्षुषः प्राप्यप्रकाशकारित्वे स्वतोऽधिकपरिमाणवद्ग्रहणासम्भवः / न खलु नखरञ्जनिका परशुच्छेद्यं छिनत्ति, शाखाचन्द्रमसोस्तुल्यकालग्रहणानुपपत्तिश्चेति, तन्न, अधिष्ठानासम्बद्धग्राहिण्या दीपप्रभाया इव चक्षुषोऽपि प्राप्यकारित्वे सम्भवात्, गोलकनिर्गतस्य महतश्चक्षुषः पृथ्वग्रत्वेन प्रदीपप्रभाया इव पृथुतरग्रहणस्य चोपपत्तेः / तस्मात्प्राप्यप्रकाशकारित्वाद् गोलकातिरिक्तमेव चक्षुः / तच्च न भौतिकं किन्त्वाहङ्कारिकमिति साङ्ख्याः / एतच्च भूतविकारत्वबोधिकाभिः “आदित्यश्चक्षुर्भूत्वा अक्षिणी प्राविशत्" (एत० उप० 2 / 4) इत्यादिश्रुतिभिः विरुद्धम् / तस्मात्तैजसमेव चक्षुः / अचिन्त्यो हि तेजसो लाघवातिशयेन वेगातिशय इति शाखाचन्द-मसोभिन्नकालग्रहणेऽपि तुल्यकालप्रतितिर्नानुपपन्ना / नाप्यणुत्वं तेषाम्, शरीरव्यापिशैत्योपलम्भात् / नापि विभुत्वम्, सर्वेषां युगपद्ग्रहणप्रसङ्गात् / एवञ्च मध्यमपरिमाणमेव ' तेषां स्वीकार्य्यम् / अणुत्वेऽपि तन्निर्गतस्य पृथ्वग्रत्वान्न दोष इत्यन्ये /
Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268