Book Title: Chakshurprapyakaritawad
Author(s): Punyapalsuri
Publisher: Parshwabhyuday Prakashan
View full book text
________________ 230 सन्दर्भग्रन्थाः वृत्तिरेवाऽभिमता। कैयटोक्तव्याख्याने तु चक्षुर्व्यक्तिरिति विशेष्यं बोध्यम् / वृत्तिपरत्वेन व्याख्याने चिरं ज्ञानानुभवानापत्तिरिति पूर्वपक्षः / तावत्कालं स्थिरत्वेनाद्यमुत्तरं, द्वितीयं तु स्पष्टमेवेति ध्येयम् / // प्रदीपोद्योतनम् // दृश्यतेऽनेनेति दर्शनं चक्षुः तत्तेजसं विषय पर्यन्तं व्याप्नोति इन्द्रियाणां प्राप्यकारित्व नियमाद् अतः अपादाने इत्येव पञ्चमी सिद्धेत्याह दर्शनमिति / // वाक्यपदीयः॥ चक्षुषः प्राप्यकारित्वे तेजसा तु द्वयोरपि / विषयेन्द्रिययोरिष्टः संस्कारः स क्रमो ध्वनेः // // हरिवृषभकृत-टीका- // इहालोकानुगृहीतं घटादिविषयं सन्तमसेऽवस्थितोऽयं प्रतिपद्यते / तत्र येषामप्राप्यकारि चक्षुस्तेषामालोकेन विषयः प्रायेणानुगृह्यते / प्राप्यकारित्वे तु चक्षुषस्तुल्यजातीयेन तेजसा नयनरश्म्यनुग्रहः क्रियते // .. // अम्बाक/व्याख्या // चक्षुषः प्राप्यकारित्व इति / चक्षुषः प्राप्यकारित्वे चक्षुर्विषयदेशं गत्वा विषयेण संयुज्य विषयं गृह्णातीति पक्षे / "कृभ्वस्तयः क्रियासामान्यवचना" इति सिद्धान्तेनात्र कृधातोर्ग्रहणेऽर्थे प्रयोगः / तेजसा तु सौराद्यालोकेनेन्द्रियविषययोर्द्वयोरप्यनुग्रहविशेषरूपः संस्कार इष्टः / स एव क्रमः, सैव रीतिः शब्दश्रोत्रयोर्ध्वनिभिः संस्कारेऽवगन्तव्येत्यर्थः / अयं भावः-सन्तमसेऽवस्थितोऽपि लोको बहिरालोकानुगृहीतं घटादिविषयं प्रतिपद्यते / तत्रालोकेन विषयानुग्रहे विप्रतिपत्तिरेव नास्ति, घटादेरालोकानुग्रहानुग्रहयोरुपलब्ध्यनुपलब्धिदर्शनात् / आलोकेन चक्षुषोऽनुग्रहे परं विप्रतिपत्तिः पक्षभेदेन / तथा हि-चक्षुस्तैजसमिति सर्वेषां मतम्, किन्तु तस्य तैजसत्वेऽपि स्वरूपविषये द्वे दर्शने / केषाञ्चिद् बुद्बुदमानं चक्षुरिति दर्शनम् / बुबुदो मानमुपमानं यस्येति तदर्थः / बुबुदसदृशमित्यर्थः / यद्वा बुबुदपरिमाणमित्यर्थः / तथा चैतन्मते खद्योतादितेजोवत् चक्षुरपि स्वगोलकस्थितमेव बहिरवस्थितं घटादिकमप्राप्यैव गृह्णाति, चक्षुषः सूर्यादिमण्डलग्रहे तत्प्राप्तिकल्पनायां गौरवादननुभवाच्च / मध्यस्थितानां ग्रहान्तराणामपि मध्येमागं चक्षुः सङ्गतानां ग्रहणप्रसङ्गाच्चेति चक्षुषोऽप्राप्यकारित्ववादिनो बौद्धाः /
Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268