Book Title: Chakshurprapyakaritawad
Author(s): Punyapalsuri
Publisher: Parshwabhyuday Prakashan

View full book text
Previous | Next

Page 254
________________ 228 सन्दर्भग्रन्थाः सम्बद्धोऽपि पृथुतरोऽपि विषयो गोलकनिर्गतेन नयनेन पृथ्वग्रतया सङ्कोचविकासशालितया च प्रकाश्यते। उक्तविषये न्यायदर्शनसम्मतिः श्रीजयन्तभट्टो न्यायमञ्ज- चक्षुषः प्राप्यकारित्वमित्थं न्यरूपयन् तेजसः प्रसरणात् चक्षुषः प्राप्यकारिता / यद्यपि प्रत्यक्षेण नायनं तेजो नोपलभ्यते, तथापि पदार्था न खलु प्रत्यक्षैकशरणाः, अनुमानादिभिरपि एषामुपलब्धिः सम्भवत्येव / काचादीनां केषाञ्चिदतिस्वच्छतया केषाञ्चिच्च सच्छिद्रत्वात् कर्तुं न शक्यते / यथा भर्जनकपालादौ तेजः प्रसरस्यानिरोधोऽनुभूयते, तद्वत् / अयस्कान्तमणेरपि सामर्थ्य यावति सन्निकर्षे कार्याय प्रभवति, तावान् सन्निकर्षोऽपेक्ष्यत एव / व्यवहितस्य ग्रहणे कुड्यादिव्यवहितमपि कथं न गृह्यते ? भौतिकत्ववादेऽपि प्राप्यकारित्वमित्यत्र न्यायशास्त्रम् यच्चोच्यते भौतिका (भूतविकाराः) दीपादयः परं प्रकाशयन्त आत्मानमपि प्रकाशयन्ति, न चैतदिन्द्रियेष्विति इन्द्रियाणां न भौतिकत्वं भूतत्वं वा, अपि तु आहङ्कारिकत्वमेवेति / तदपि न, भौतिकत्वपक्षेऽपि न हि गोलकमेव चक्षुः, अपि तु तदधिष्ठानकं तेजस्तत्त्वम् / तत्र चास्मदादिनयनरश्मिसमवेतं रूपमनुद्भूतमिति प्रत्यक्षीकर्तुं न शक्यते / बिडालव्याघ्रसिंहादीनां चाक्षुषं तेजो भास्वररूपं दूरमपि प्रसरत् प्रत्यक्षीक्रियत एव / किञ्च, महदणुग्रहणान्न भौतिकत्वमित्यपि न विचारसहम्, ईदृशकार्यदर्शनेन तत्र सङ्कोचविकासशालित्वस्यानुमानात् / उक्तं च महर्षिगौतमेनाऽपिदृष्टानुमितानां पदार्थानां विधिः प्रतिषेधो वा कर्तुं न शक्यते, तद्विषयकस्य प्रमाणस्य विद्यमानत्वादित्यर्थकेन "दृष्टानुमितानां हि नियोगप्रतिषेधानुपपत्तिः, प्रमाणस्य तत्त्वविषयत्वात्" इति सूत्रेणेति नि:शन्देहं चक्षुषः प्राप्यकारित्वम् / चक्षुषः प्राप्यकारित्वे आधुनिकानां शङ्का तत्परिहारश्च चक्षुषः प्राप्यकारित्वमते अधुनातना बहवो विद्वासं आक्षिपन्तिसूर्यमण्डलप्रत्यक्षकाले मध्यमार्ग स्थितानां ग्रहादीनामपि चाक्षुषं कुतो न ? यदि चक्षुः प्राप्य विषयं गृहणातीति / अत्रोच्यतेअल्पपरिमाणत्वेन दूरत्वदोषेण च तेषां चाक्षुषं न भवति, सूर्यमण्डलस्य तु दूरत्वदोषे सत्यपि परिमाणबाहुल्यात् चाक्षुषं जायत एव / अनुभयते च सर्वैः पञ्चषपदपरिच्छिनेऽपि देशे दूरस्थितानां सूच्यादीनामप्रत्यक्षम्, दूरस्थितानामपि घटादीनां प्रत्यक्षम् / तत्र को हेतुः ? तद्गतपरिमाणाल्पत्वमहत्त्व एव / यदि तु तत्रैव स्थितानां सूच्यादीनां स्वल्पपरिमाणानामपि प्रत्यक्षमुपनेत्रोपकृतेन चक्षुषा भवतीति ब्रूषे, तदोपनेत्रविशेषोपकृतेन यन्त्रविशेषोपकृतेन वा चक्षुषाऽन्तरिक्षस्थितानामपि अल्पपरिमाणानां

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268