Book Title: Chakshurprapyakaritawad
Author(s): Punyapalsuri
Publisher: Parshwabhyuday Prakashan
View full book text
________________ विभाग-७ 221 / ऽभावात्परिहतमित्याह ततश्चेति सार्द्धद्वयेन / अर्थाऽऽर्जवेनाऽवस्थानं वा संप्रयोग इत्याह यदि वेति / शक्तिलक्षणो वा संबन्धः कार्यगम्यः शब्दार्थयोरिवेन्द्रियाऽर्थयोः संप्रयोग इत्याह योग्यतेति / भवतु वा साङ्ख्यादिसिद्धान्तेन प्राप्यकारित्वमेव श्रोत्रचक्षुषोरित्याह साङ्ख्येति / न च ते शक्यन्ते निर्जेतुमित्यभिप्राय इति / किं पुनः प्राप्यकारित्वे प्रमाणमत आह तयोरिति / ननु प्रत्यक्षविरुद्धमेवेदमनुमानं कर्णशष्कुल्याश्चक्षुर्गोलकस्य च शरीरएवोपलम्भादत आह केचिदिति / साङ्ख्यास्तावदाहङ्कारिकयोः श्रोत्रचक्षुषोवृत्तिः शरीराद्विनिर्गत्याऽर्थं गृह्णाति इति मन्यन्ते, सा चाऽदृश्येति न प्रत्यक्षविरोध इति / नन्वधिष्ठानमेवेन्द्रियं, तत्र चिकित्सादिप्रयोगादत आह चिकित्सेति / अधिष्ठानाधारा वृत्तिस्तेन चिकित्सादिप्रयोगो ऽधिष्ठानसंस्कारोऽपि तत्राऽऽधेयस्योपकरोतीति / नन्वधिष्ठानगतस्यैवोपकर्तुं शक्नोति, कथं बहिर्गतस्योपकरोत्यत आह तद्देश इति / . अपरित्यक्ताऽधिष्ठानैव वृत्तिरर्थदेशं प्राप्नोति दीपप्रभावत्, अतोऽधिष्ठानगतोऽपि संस्कारो बहिर्गताया अप्युपकरोतीति / दृष्टं च देशान्तरगतस्याऽपि संस्कारस्य देशान्तरेऽपि उपकारकत्वं, यथा पादादिगतस्य चक्षुरादाविति / तदाह चक्षुरादीति / एतदेवोपसंहरति तस्मादिति / निरन्तरग्रहणमधिकग्रहणं चोपपादयति बहिरिति सपादेन / दीपप्रभैवाऽत्र दृष्टान्तः / तेन यत्र यादृशं पार्थवं पृथुत्वं तत्र तावदधिकं गृह्यत इति / न च वाच्यं यदि वृत्तिर्गत्वाऽर्थं प्रकाशयति, किमति दूरं न गच्छतीति, कार्यगम्या हि तद्गतिः, अतो यथा कार्यमवतिष्ठत इति नातिदूरगमनं, तत्रापि दीपप्रभैव निदर्शनं, प्रत्युताऽप्राप्यकारित्ववादिनामेवाऽति-दूरव्यवहिताऽर्थग्रहणप्रसङ्ग इत्यभिप्रायेणाह दूरेऽपीति। __नन्वर्थगता वृत्तिरधिष्ठाननाशे ऽपि किमित्यर्थं न प्रकाशयति, अत आह दीपप्रभेति / यद्यपि वाचि नाशस्तथाप्यात्मप्रयत्नाऽनुगृहीता साऽर्थमात्मनउपनयति समर्पयति, नष्टे ऽप्यधिष्ठाने पिहितेऽपि वा उच्छिन्नयत्नया तया ऽर्थो ऽनुपनीतत्वा नात्मन्यात्मनाऽनुभूयतइत्याह अधिष्ठानेति / सान्तरग्रहणमुपपादयति विच्छिन्न इति / यथा सर्वगतमप्यात्मानं शरीरान्तर्गतमेव प्रतिपत्तारो मन्वते तथेन्द्रियमपि गोलकमेव, अतः शरीराऽपेक्षया गोलकाऽपेक्षया वा विच्छिन्ने विच्छेदबुद्धिः, शब्दे ऽप्ययमेव न्यायः सांख्यानामिति / ॥मीमांसा श्रलोकवार्तिकतात्पर्यटीका // ततश्च यदप्राप्यकारित्वाच्चक्षुश्श्रोत्रयोरव्यापकत्वं नाम दूषणमुक्तम् अप्राप्यकारित्वं च सान्तराधिष्ठानार्थाधिकार्थग्रहणेन; न हि निरन्तरदेशे गन्धस्पर्शादौ सान्तरा प्रतिपत्तिरधिकार्थग्रहणं चेति, तदस्मद्व्याख्याने न भविष्यति; यतो न संप्रयोगशब्देन संयोग इत्युच्यते, अपि तु व्यापारमात्रमित्याह ततश्चेति सार्द्धश्लोकद्वयेन।
Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268