Book Title: Chakshurprapyakaritawad
Author(s): Punyapalsuri
Publisher: Parshwabhyuday Prakashan

View full book text
Previous | Next

Page 248
________________ 222 सन्दर्भग्रन्थाः कः पुनरसौ व्यापारः ? अर्थस्य वा ऋजुदेशत्वेनावस्थानमिन्द्रियस्य वा योग्यतां कार्यलक्षितां संप्रयोगशब्दो ब्रवीतीत्याह-यदि वेति / इदानीं संयोगमेव संप्रयोगशब्दस्यार्थमभ्युपगम्य साङ्खयमतेन परिहरतिसाङ्ख्यादीन् वेति / अयं प्रयोगार्थ:प्राप्यकारिणी चक्षुःश्रोत्रे, इन्द्रियत्वात् त्वगादिवदिति / कथं पुनः प्राप्यकारित्वमित्याशङ्कयाहकेचिदित्यर्द्धन / केचिद्ग्रहणं श्रोत्रविषयम् / केचिदाहु:श्रोत्रवृत्तिरेव शब्दसमीपं गच्छतीति / अपरेषां तु दर्शनम् संयोगविभागादुत्पन्नः शब्दः शब्दान्तरारम्भक्रमेण श्रोत्रदेशं गच्छतीति // ___ यत्पुनरिदमुक्तम्-अधिष्ठानदेश एवेन्द्रियम्, तत्र चिकित्सादिप्रयोगादिति; तत्राह चिकित्सादीति / अधिष्ठानसंस्कार एवासाविन्द्रियमुपकरोतीत्यर्थः / एवं तर्हि तत्स्थाया एवेन्द्रियवृत्तेरुपकारकोऽसौ, बहिर्वृत्तेर्न प्राप्नोतीत्याशङ्याहतद्देशेश्चेत्यर्द्धन / दृष्टं चैतदन्यत्र संस्कारोऽन्यत्र चोपकार इत्याह-चक्षुरादीत्यर्द्धन // तस्मादनैकान्तिको हेतुः / अधिष्ठानसमानदेश एवेन्द्रियम्, तत्र चिकित्सादिप्रयोगादित्याहतस्मान्नेत्यर्द्धन / यत्पुनरिदमुक्तम्-अधिष्ठानाधिकस्य ग्रहणं न प्राप्नोतीति, तत्राप्याह-बहिर्वृत्तिरिति साढेन // नन्वेवं तर्हि बहिर्जातायां वृत्तौ यदाधिष्ठानविनाशः तदापि ग्रहणं प्राप्नोतीत्याशङ्कयाहदीपप्रभेति // अधिष्ठानपिधाने तर्हि अविनष्टत्वान्मूलस्यार्थग्रहणं प्राप्नोतीत्याशङ्कयाह-अधिष्ठानपिधाने चेति // अधिष्ठानापेक्षया च सान्तराप्रतिपत्तिरित्याह-विच्छिन्न इत्यर्द्धन / // मानमेयोदयः // अत्र चक्षुःश्रोत्रयोः प्राप्यकारित्वे विवादोऽस्तीति तयोरपि बहिरिन्द्रियत्वात् त्वगादिवत् प्राप्यकारित्वं साधनीयम् / ततश्च चक्षुषः पृथुतरपृथिवीधरादिदर्शनात् पृथ्वग्रत्वमपि तेजःस्वभावसिद्धमाश्रयणीयम् / तथा उन्मीलनक्षण एव दूरतरशनैश्चरादिदर्शनात् व्याप्यावस्थितेन बाह्यतेजसा निर्गमनसमय एवैकीभावः कल्पनीयः / न च बाह्यतेजसः सकलव्यापित्वात् केरलेभ्योऽपि गङ्गादर्शनप्रसङ्गः, अदृष्टोपगृहीतेनैवालोकभागेनैकीभावात् / तार्किकास्तु तदिदं दूरदर्शनं वेगातिशयात्साधयन्ति / तदनन्तयोजनान्तरितेष्वपि शनैश्चरादिषु झटितिदर्शनं वेगमात्रादसंभाव्यमिति उपेक्षितमस्माभिः / एतानि च चक्षुःरादीनि अनुद्भूतरूपस्पर्शत्वात् प्रत्यक्षेण न गृह्यन्ते इति / . . .

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268