Book Title: Chaityavandan Chaturvinshati
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 10
________________ श्री चैत्यवंदनचतुर्विशतिः [५] नमाम्यात्मारामं कमलचरणं लब्धिवरदं वनौकश्चिह्नन्तं कनककिरणं दिव्यतनुकम् । नयन्तं विज्ञानं भविकपटलं भावुकपरं जगद्वन्द्यो योऽस्मिन् दिवि भुवि जने ख्यातमहिमा ॥३॥ (५) श्रीसुमतिनाथचैत्यवन्दनम् ( शार्दूलविक्रीडितम् ) भक्त्या नौमि जिनं सदा शिवकरं दिव्यप्रभाभासुरं तं तत्तत्त्वविचारसारशरणं मोहाब्धिसंशोषकम् । ज्ञानोद्योतकरो गुणाकरगिरौ भास्वानिवाभासते यो द्युत्या भुवने प्रकाशनिवहं विस्तारयन् सर्वदा ॥ १ ॥ नाम्ना यः सुमतिप्रभुर्मदनहा विश्वेशविद्यालयो भास्वान् पूर्वगिराविवात्र हरति व्यारुह्य तीर्थाचलम् । अज्ञानात्मतमोभरं प्रतिदिनं सद्धर्मभव्यात्मनां तं भूम्यामुपकारधूर्वहचणं भक्त्यार्चयाम्यन्वहम् ॥२॥ ५ “ सूर्याश्वैर्मसजाः स्तताः सगुरवः शार्दूलविक्रीडितम्"इति लक्षणम् । यत्र पादे म.स.ज-स-त तगणा गुरुसहिताश्च चेत् द्वादशसप्तमेषु विरामश्च तत् शार्दूलविक्रीडितमित्यर्थः। श्लोकेऽस्मिन् एकोनविंशत्यक्षरपरिमितः पादो बोध्यः ।।

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40