Book Title: Chaityavandan Chaturvinshati
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 28
________________ श्री चैत्यवंदनचतुर्विंशति: ( २३ ) श्रीपार्श्वनाथचैत्यवन्दम् २३ ( चञ्चरीकावली ) गुणश्रेणिं शान्तं कामवल्लीकृपाणं बुडत्प्राणित्रातोत्तारणे नौसमानम् । अघौघं हन्तारं सेव्यमानं सुभव्यै नमामि श्रीपार्श्व देवदेवेशपूज्यम् प्रधानं देवेषु प्राज्ययोगद्धिंदीनं जगद्वादित्रातं चारुतत्त्वप्रकाशम् । नयन्तं नेतारं शान्तिपीयूष राशि कषायान्निर्मुक्तं संस्तवीमि स्मरामि निरीहं निर्द्वन्द्वं दुःखदावाग्निनीरं कृपापारावारं स्वर्णशैलेशधीरम् । विकाशे विद्यानां मूलरूपं जिनेशं सदा सेवे पार्श्व नीलजीमूतभासम् [ २३ ] 11 2 11 ॥ २ ॥ ॥३॥ २३ " यमौ रौ विख्याता चवरीकावलीगः” इति लक्षणम् । यत्र य-म-र-रगणास्तदनन्तरं गुरु च स्यात् सा चचरीकावलीत्युच्यते । लोकेऽस्मिन् त्रयोदशाक्षरपरिमितः पादो बोध्यः ||

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40