Page #1
--------------------------------------------------------------------------
________________
चैत्यवन्दनचतुर्विंशतिः ।
प्रणेता
श्रीमद्विजयलब्धिसूरीश्वरजी
महाराजः
----
Page #2
--------------------------------------------------------------------------
________________
JBORBO.........
................
श्री लब्धिसूरीश्वर जैन ग्रन्थमालायाः अष्टमो मणि: [ ८ ]
जैनरत्न व्याख्यानवाचस्पति कविकुलकिरीट सूरिसार्वभौम जैनाचार्य श्रीमद्विजयलब्धिसूरीश्वर -
fo
1900
विरचिता
श्री चैत्यवन्दनचतुर्विंशतिः ।
...........................
जीवरक्षाप्रचारकाचार्यवर्य श्रीमद्विजयगंभीरसूरि वरोपदिष्ट-मद्रास जैन संघार्षितार्थ साहाय्येन
प्रकाशप्रापयित्री
श्री लब्धिसूरीश्वर जैन ग्रन्थमाला |
वीर सं. २४६५ विक्रम १९९५
>●●●●●●●............................................
मूल्यमाणकद्वयम्
*.................................... 100000........
आत्म सं. ४४
........................................................
1.........................
Page #3
--------------------------------------------------------------------------
________________
००
.0000,
oOORPOORPOOOD MOOOORNOON प्राप्तिस्थानं प्रकाशकश्च- . .
चंदुलाल जमनादास शाह
छाणी-(वडोदरा स्टेट). 0.0000 0.0000 0.0000 0.
.०००
O0000
000.
000000000000000000000
0000000000000००००००००००००000000000000000000
H०००००००००००००00000000
+
. 0
0000000000000. . . ००००००००००००००००००००००००००००००००
०००००0000000008
इस्वी सन १९३९ प्रतयः १०००
88000000000००००
°0000000000000000000000000000.
.0000000००००
००००००००००००000000000000000
0000000000000000000000000000
Page #4
--------------------------------------------------------------------------
Page #5
--------------------------------------------------------------------------
________________
₹900000000000000000000000000000
००Gale
Ao deềeeeeeeeeeee deeeeeeeeeea
40000000000000000000000000000000000000
000000000000००००००००००००००००००००000000000000000000GESC
००००००००००००००००००००CsD
290000000000000000000000000000000000000000000000000000
100000000000 0000003
जैनरत्न व्या. वा. कविकुलकिरीट सूरिसार्वभौम जैनाचार्य
श्रीमद्विजयलब्धिसूरीश्वरजी महाराज.
१०००००००००००००००००००००००००००
% 3
5
29.000000000000०००००००००००००००
श्री महोदय प्रेस-भावनगर.
Page #6
--------------------------------------------------------------------------
________________
चैत्यवन्दनचतुर्विंशतिः ।
( १ )
श्री आदिनाथजिनचैत्यवन्दनम् ( द्रुतविलम्बितम् )
प्रथमतीर्थपतिं प्रथमं मुनिं
निचितपापतमोभरभास्करम् |
अनतिपातिपदस्य विधायकं
निखिलसौख्यविलासकरं परम् ।। १ ।
१ “ द्रुतविलम्बितमाहनभौ भरौ ” इति लक्षणम् । यत्र पादे न-भ-भ-रंगणा भवन्ति तद् द्रुतविलम्बितमित्युच्यत इत्यर्थः । पादे चात्र द्वादशाक्षराणि भवन्ति ।
तत्राष्टौ गणाः-भ-ज-स-य-र-त-म-नगणाः । आदिगुरुः-लघुद्वयं च यत्र स भगणः (s || भगणः ), आद्यन्तयोर्लघुर्मध्ये गुरुश्च यत्र स जगणः (Is | जगणः ), आद्यद्वयं लघुरन्ते गुरुर्यत्र स सगणः (॥ s सगणः ), यत्र च प्रथमो लघुरन्त्यौ च द्वौ गुरू स यगणः ( Iss यगणः ), यत्राद्यन्तयोर्गुरूर्मध्ये लघुश्च स रगणः ( ऽ । ऽ रगण: ), यत्र प्रथमौ द्वौ गुरु तृतीयो लघुश्च स
-
Page #7
--------------------------------------------------------------------------
________________
[२]
श्रीमद्विजयलब्धिसूरीश्वरप्रणीताजगदनीहितदुःखविदारक
प्रवरबुद्धिरमोदयधारकम् । शुचिगुणैर्जगदुज्ज्वलकारकं
वितथकार्यविकारविनाशकम् ॥२॥ नतसुरासुरनाथसमाजकं ।
सकलसन्मतिभावविकाशकम् । हृदयमाथकमन्मथमाथकं
नमत नाथमनाथसहायकम् [विशेषकम् ] ॥३॥
श्रीअजितनाथचैत्यवन्दनम्
( तोटकम् ) विजयासुतवन्दनतोऽतिभवा जगतीह समीहितभावधरा । जनताऽजनि मोक्षविलासपरा प्रणमामि ततोऽहमिमं प्रमुदा ॥१॥ तगणः (55। तगणः), यत्र वर्णत्रयमपि गुरुः स मगणः (sss मगण:), एवं वर्णास्त्रयोऽपि लघवश्वेत् स नगणो बोध्यः (। नगणः) - गु इति ग इति च गुरोरसंज्ञा, लु इति ल इति च लघोस्संज्ञा 'संयुक्ताचं दीर्घ सानुस्वारं विसर्गसंमिश्रं विज्ञेयमक्षरं गुरु पादान्तस्थं विकल्पेन' ॥ इति लक्षणेन गुरुर्बोध्यः, तदितरो वर्णस्तु लघुरवसेयः॥ - २ " इह तोटकमम्बुधिसैः प्रमितम्” इति लक्षणम् । यत्र पादे चत्वारः सगणास्सन्ति तत् तोटकमित्यर्थः । श्लोकेऽस्मिन् द्वादशाक्षरपरिमितः पादो बोध्यः ॥
Page #8
--------------------------------------------------------------------------
________________
श्री चैत्यवंदनचतुर्विंशतिः ।
[३] अचिरात् सुचिरार्जितपापहरं भविनां भवहारकभावधरम् । दमिनां हृदये रमणं शरणं विबुधानतपादसरोजयुगम् ॥२॥ जगतामहितं सुहितं सुखदं गुणिभिर्गणितं गुणदं गुणिनम् । न कथं सुभजेयमहन्तमिभं मदनादिकमूलसमूलकषम् ॥३॥
(३) श्रीसंभवनाथजिनचैत्यवन्दनम्
( मन्दाक्रान्ता) सेनासूनुं गुणगणधरं पावनी यस्य वाणी
संसाराब्धेर्भवभयहरा तारयत्येव भव्यान् । शक्रेशाद्यैस्सुरगिरिवरे निर्मितश्चाभिषेकः
पूज्यं वन्दे सुरनरनतं संभवं तं जिनेन्द्रम् ॥१॥ दिव्यं ज्योतिस्तिमिरनिवहं हन्ति यस्य क्षणेन ।
लोकालोकप्रथितमहिमात्यन्तभास्वत् स्वरूपम् ज्ञेयं ध्येयं विभुपदधरं सार्वभौमैमुनीशैः ___तं तोष्टोमि प्रवरपदवी प्राप्तुकामः प्रकामम् ॥२॥
३ “मन्दाक्रान्ता जलधिषडगैम्भौं नतो ताद्गुरू चेत्” इति लक्षणम् । यत्र पादे म-भ-न-त-तगणास्ततो द्वौ गुरू चेदेवं चतुर्थषष्ठसप्तमेषु विरामश्च सा मन्दाक्रान्तेत्यर्थः । श्लोकेऽस्मिन् सप्तदशाक्षरपरिमितः पादो बोध्यः ।
Page #9
--------------------------------------------------------------------------
________________
[४]
श्रीमद्विविजयलब्धिसूरीश्वरप्रणीताआत्मारामं कमलविमलं विश्वलब्धिस्वरूपं
ज्ञानागारं वरमतिकरं योगिनां गभ्यरूपम् । शान्तं दान्तं विशदयशसं तीर्णसंसारकूपं तायाङ्कन्तं मनसिजहरं नौमि विश्वस्य भूपम् ॥३॥
(४) श्रीअभिनन्दननाथचैत्यवन्दनम्
(शिखरिणी' ) न कश्चित् संसारे शरणमिह तं साम्बरिमृते
गुणच्छाया यस्य प्रबलविषयातापहरमा । सदा जापात् पापं प्रभवति न च प्राणिनिवहे
निरातङ्गं देवं भज हतदरं सौख्यभवनम् ॥१॥ विशेषज्ञ वैद्यं विमलनयनं चन्द्रवदनं
महारोगारीणां हरणविषये प्राप्तयशसम् । महागोपं वन्दे वितिमिरकर भाग्यभवनं
भवाब्धेनिस्तारे सबलतरणिं मुक्तिगमकम् ॥२॥ ४"रसै रुद्रैश्छिन्ना यमनसभला गः शिखरिणी" इति लक्षणम् । यत्र पादे य-म-न-स-भगणास्ततो लघुगुरुश्चदेवं षडेकादशसु विरामश्च सा शिखरिणीत्यर्थः । श्लोकेऽस्मिन् सप्तदशाक्षरपरिमितः पादो ज्ञेयः ॥
Page #10
--------------------------------------------------------------------------
________________
श्री चैत्यवंदनचतुर्विशतिः
[५] नमाम्यात्मारामं कमलचरणं लब्धिवरदं
वनौकश्चिह्नन्तं कनककिरणं दिव्यतनुकम् । नयन्तं विज्ञानं भविकपटलं भावुकपरं जगद्वन्द्यो योऽस्मिन् दिवि भुवि जने ख्यातमहिमा ॥३॥
(५) श्रीसुमतिनाथचैत्यवन्दनम्
( शार्दूलविक्रीडितम् ) भक्त्या नौमि जिनं सदा शिवकरं दिव्यप्रभाभासुरं
तं तत्तत्त्वविचारसारशरणं मोहाब्धिसंशोषकम् । ज्ञानोद्योतकरो गुणाकरगिरौ भास्वानिवाभासते
यो द्युत्या भुवने प्रकाशनिवहं विस्तारयन् सर्वदा ॥ १ ॥ नाम्ना यः सुमतिप्रभुर्मदनहा विश्वेशविद्यालयो
भास्वान् पूर्वगिराविवात्र हरति व्यारुह्य तीर्थाचलम् । अज्ञानात्मतमोभरं प्रतिदिनं सद्धर्मभव्यात्मनां तं भूम्यामुपकारधूर्वहचणं भक्त्यार्चयाम्यन्वहम् ॥२॥
५ “ सूर्याश्वैर्मसजाः स्तताः सगुरवः शार्दूलविक्रीडितम्"इति लक्षणम् । यत्र पादे म.स.ज-स-त तगणा गुरुसहिताश्च चेत् द्वादशसप्तमेषु विरामश्च तत् शार्दूलविक्रीडितमित्यर्थः। श्लोकेऽस्मिन् एकोनविंशत्यक्षरपरिमितः पादो बोध्यः ।।
Page #11
--------------------------------------------------------------------------
________________
श्रीमद्विविजयलब्धिसूरीश्वर प्रणीता में
[ ६ ]
क्रौञ्चाङ्कं सुगुणालयं जिनवरं सन्तीर्णदुःखार्णवं आत्मारामपरं विकासकमलं यच्चक्षुषा निर्जितम् । तं लब्ध्यालयमाप्तमन्वहमहं सार्वं जगत्पावनं - मेघात्मोद्भवमार्यधर्मकरणात् सर्वार्थमुख्यं भजे
( ६ )
श्रीपद्मप्रभचैत्यवन्दनम् ( वसन्ततिलक ).
पाद्मप्रभं सुरनराधिपसेव्यमानं
लोकैरगम्य महिमाधिकसौख्यकारि ।
ज्ञानप्रदाय्यखिलकर्मतमः प्रहारि
॥ ३ ॥
नौमि द्वयं चरणयोश्चरणप्रचारि ॥ १ ॥
संसारदुर्जयपयोनिधियानपात्रं
सम्यक्त्वसारसुखदं परमं पुमांसम् । नेत्राब्जभास्करमनङ्गविभङ्गबीजं
सेवे सुरासुरवरार्चित पूतगात्रम्
चञ्चत्प्रकाशनिहतारितमोनिकार्यं विस्तारितातिविशदागमतत्त्वरूपम् ।
66
६ उक्ता वसन्ततिलका तभजा जगौ गः " इति लक्षणम् । यत्र पादे त-भ-ज-जगणास्ततो द्वौ गुरू च चेत् सा वसन्ततिलकेत्यर्थः । श्लोकेऽस्मिन् चतुर्दशाक्षरपरिमितः पादो विज्ञेयः ॥
॥ २ ॥
Page #12
--------------------------------------------------------------------------
________________
श्री चैत्यवंदनचतुर्विंशतिः
[५] स्याद्वादभङ्गरचनार्पितसत्यबोधं पद्मप्रभं प्रतिदिनं प्रणमामि भक्त्या ॥३॥
(७) श्रीसुपार्श्वनाथचैत्यवन्दनम्
( मालिनी) विततविमलभावः शुद्धशान्तस्वभावो
दिनकर इव नाथो दुर्मतिध्वान्तनाशी । स्वपरसमय सिद्धप्राणितत्त्वप्रकाशी
निखिलगुणगणानामाकरः श्रीजिनेशः ॥१॥ रिपुदलमिव चक्री सर्वरोगादिशत्रून्
__परिहरति जिनेशो धूतनिःशेषपापः। . - भविजनसुखकारी शुद्धचारित्रधारी
जयति विदितसारःप्राणिरक्षाप्रचारः॥२॥युग्मम् ।। विकचकमलनेत्रं पूर्णचन्द्रानन न्तं ..
चरणकरणगेहं प्राप्तसौन्दर्यदेहम् । भविजननुतपादं ध्वस्तसर्वप्रमादं
भजत भविकजीवाः श्रीसुपाचं जिनेन्द्रम् ॥ ३॥
७ " ननमयययुतेयं मालिनी भोगिलोकैः” इति लक्षणम् । यत्र पादे न-न-म-य-यगणा भवन्ति अष्टसप्तभिर्विरामश्च सा मालिनीत्यर्थः । श्लोकेऽस्मिन् पञ्चदशाक्षरपरिमितः पादो बोध्यः॥
Page #13
--------------------------------------------------------------------------
________________
[ ]
श्रीमद्विजयलब्धिसूरीश्वरप्रणीता
(८) श्रीचन्द्रप्रभचैत्यवन्दनम्
(पञ्चचामरम्) नमामि चन्द्रनामतः प्रभाधिकं प्रभुं वरं
शुभात्मतीक्ष्णचिन्तनाजितारिमोहमुद्भभटम् । अवाप्तकेवलोवलप्रभाप्रसारभासुरं
नतासुरामरेश्वरं विकाशिपादपङ्कजम् ॥१॥ अनङ्गरङ्गभञ्जकं विशुद्धबुद्धिरञ्जकं
विलुप्तसर्वरागकं जगद्विकारनाशकम् । विशुद्धधर्मदायकं कुकर्मनाशसायक
श्रयामि मुक्तिगामुकं वितीर्णसर्वभावुकम् ॥२॥ अवद्यवर्गभेदकं सुखापवर्गकारक
विशिष्टसौख्यधारकं विनीतदुःखवारकम् । अनादिदोषहारकं चरित्रबोधिदानतः
स्तवीमि तारकं परं मिथोऽदयातमोहरम् ॥३॥ ८" जरौ अजागुरष्टभिर्यतिश्च पञ्चचामरम्” इति लक्षणम् । यत्र पादे ज-र-ज-र-जगणाः सगुरवश्चेत् एवमष्टभि विरामश्च तत् पञ्चचामरम् । श्लोकेऽस्मिन् षोडशाक्षरपरिमिता पादो विज्ञेयः ॥
Page #14
--------------------------------------------------------------------------
________________
श्रीः चैत्यवंदनचतुर्विंशतिः
( ९ )
श्रीसुविधिनाथचैत्यवन्दनम्
( उपजाति: ' )
नताखिलाखण्डलमौलिरत्न
विश्वस्त मोहारिबल ! प्रकामं
प्रभाच्छटाद्योतकपादपद्म ! |
लोके जय त्वं सुविधे ! जिनेन्द्र ! ॥ १ ॥
श्रुतेर्गुणानां श्रवणे पवित्रे
त्वद्दर्शनाक्षेत्रमवाप्तशुद्धि
त्वन्नामजापाद्धृदयं विशुद्धम् ।
त्रिलाभदं त्वां न कथं भजेयम् ? ॥ २ ॥
अनन्तकारुण्यविशिष्टसत्त्वात्
[s]
सत्वानशेषान् शिवपूर्निनीषो ! |
निकाच्य तीर्थङ्करनामभावं
जगज्जनानां शिवदाय्यभूत्वम् ॥ ३ ॥
९ " अनन्तरोदीरित लक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः' इति लक्षणम् । यस्या पादेषु उपेन्द्रवज्रायाः इन्द्रवज्रायाश्चलक्षणं भवेत् सोपाजातिरित्यर्थः । इन्द्रवज्रोपेन्द्रवज्रयो लक्षणमये द्रष्टव्यम् ॥
Page #15
--------------------------------------------------------------------------
________________
[१०]
श्रीमद्विजयलब्धिसूरीश्वरप्रणीता(१०) श्रीशीतलनाथचैत्यवन्दनम्
( स्रग्धरा ) विज्ञानाम्भोधरं त्वां मदनदहनतस्तप्तभव्यात्मभूम्यां
वर्षन्तं ज्ञानतोयं सुखकरचरणोत्पत्तिहेतुं निरीहम् । तृप्ता ज्ञानाम्बुपानाद्विबुधगुणिजना भावतः शान्तचित्ता नित्यं हर्षाद् भजन्ते विपुलगुणधरं शीतलं श्रीजिनेन्द्रम् ॥१॥ नन्दाकुक्षिप्रसूतो दृढरथनृपतेर्नन्दनो ज्ञानदाता विश्वे विज्ञानशाली *प्रकृतितिमिरहा तत्त्वपीयूषपूर्णः । भव्यानां भक्तिभाजां मनसिजहरणे यो महेशस्वरूपो नित्यानन्दप्रसिद्ध परमशुभकरं नन्नमीमि प्रकामम् ॥ २ ॥ श्रद्धा त्वत्पादपद्मे स्मृतिरपि मम ते शासनस्य प्रभूता त्वय्यर्चा नित्यमीहे नयनयुगलकं दर्शनाते प्रसन्नम् । संस्तुत्यान्ते प्रसक्तं गुणगणरसिकं मानसं मे प्रशस्तं जिह्वाकर्णौ पवित्रौ ग्रहणश्रवणतस्त्वद्गुणानां सदैव ॥ ३ ॥
१० "नभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेऽयम्" इति लक्षणम् । यत्र पादे म-र-भ-न-य-य-यगणास्सन्ति सा स्रग्धरेत्यर्थः । अस्य वृत्तस्य सप्तमे सप्तमे सप्तमे यतिः । श्लोकेऽस्मिन् एकविंशत्यक्षरप्रमितः पादो बोध्यः।*कर्मप्रकृतिरित्यर्थः
Page #16
--------------------------------------------------------------------------
________________
श्री चैत्यवंदनचतुर्विंशतिः
( ११) श्रीश्रेयांसनाथचैत्यवन्दम्
( हरिणी") अवधिरहिता दुःखावस्था विशाल! विनाशिता
तव गुणगणस्मृत्योदग्रा समूलतया त्वया । अगणितगुणश्रीश्रेयांस ! प्रबोधविधायक !
__ तदुपकृतिका मालां सारां वहामि जिनेश्वर! ॥१॥ कुसुमधनुपः शक्तिर्यस्मात् विनष्टमहोदया
विकसितमतिर्यस्य ध्यानात् दयाविषये सदा । प्रभवति मृतिर्नेयं दुष्टा यदाश्रितभावुके
प्रणमततरां तं श्रेयांसं शुभाशयभावतः ॥ २ ॥ कलिमलहृतौ शक्त्यापन्न ! भवाब्धिसुतारक !
___ विमलमतिभिस्सुष्टज्ञात ! प्रभाकरभास्वर ! । समभिलषितश्रेष्टार्थानां प्रदानपरं वरं
हृतरिपुदलं भक्त्याहं त्वां नमामि निरन्तरम् ॥३॥ ११ “रसयुगहयैन्सा नौ स्लौ गो यदा हरिणी तदा" इति लक्षणम् , यत्र पादे न-स-म-र-सगणास्ततो लघुगुरू च चेत्, एवं षट्चतुःसप्तमेषु विरामः सा हरिणीत्यर्थः । श्लोलेऽस्मिन् सप्तदशाक्षरपरिमितः पादोऽवसेयः॥
Page #17
--------------------------------------------------------------------------
________________
[१२]
श्रीमद्विजयलब्धिसूरीधरप्रणीता
(१२) श्रीवासुपूज्यजिनचैत्यवन्दनम्
( वंशस्थ ) अनन्तविज्ञानविकाशनाद् विभुः
कलाधिपाधिक्यमहोमहोर्मितः । व्यनाशयद् योऽधतमो जिनेश्वरोऽ
नवद्यरूपं विमलं भजामि तम् ॥१॥ स वासुपूज्यो यशसा महोज्वलो
भवार्णवान्मा प्रहतं कुकर्मणा । समागतं श्रीजिनपादपङ्कजं निरन्तरं रक्षतु लोकपावनः
॥२॥ स्मरादिशत्रुक्षयकारि यद्बलं - जगत्तृषाहारि च यद्वचोऽमृतम् । समग्रसंशीतिहरा च यस्य वि
ज्जिनेश्वरं नौमि तमीड्यमीश्वरम् ॥३॥
• १२ “जतौ तु वंशस्थमुदीरितं जरौ” इति हि तत्स्वरूपम् । पत्र पादे ज-त-ज-रा गणा भवेयुः तद्वंशस्थं छन्द इति भावः। पादेऽत्र द्वादशाक्षराणि भवन्ति ।
Page #18
--------------------------------------------------------------------------
________________
श्री चैत्यवंदनचतुर्विशतिः
श्रीविमलनाथचैत्यवन्दनम्
( भुजङ्गप्रयातम् ) नयानेकवादप्रमाणप्रतिष्ठा
सदा ज्ञानदात्री विधात्री चरित्रम् । यदीया सुवाणी कृपाणी पवित्रा __ कृताऽशेषकर्मवजस्य प्रणाशे
॥१ ॥ जिनेशो दिनेशो जगजीवनेता
चिदानन्दरूपस्तमोनाशकारी । वरेण्यो वराहाङ्कितो देवदेवः सदाऽव्याद्विकाशी स शान्तस्वभावः ॥२॥
(युग्मम् ) सपादे शते योजनानां समन्तात्
प्रभावात् प्रभोः सर्ववैरादयो नो । प्रभामंडलं भाति भामण्डलं यत्
ततोऽहं नमामि भ्रमामि प्रभुं नो ॥३॥ १३ " भुजङ्गप्रयातं भवेद्यैश्चतुर्भिः” इत्येवं तत्स्वरूपम् । यस्य यगणचतुष्टयमण्डिताः पादा भवेयुस्तद्भुजङ्ग प्रयातं छन्दः । द्वादशाक्षरविलसितः पादोऽत्रावसेयः ।।
Page #19
--------------------------------------------------------------------------
________________
[१४]
श्रीमद्विजयलब्धिसूरीश्वरप्रणीता(१४) श्रीअनन्तनाथचैत्यवन्दनम्
( शालिनी) प्राज्यं राज्यं हस्तियथैस्सनाथं . .
त्यक्तं स्त्रैणं रूपलावण्यगेहम् । येनाप्ताथ ख्यातचारित्रलक्ष्मी . स्तं सेवन्तेऽनन्तनाथं हि धन्याः रागद्वेषौ मूलतो यस्य नष्टौ
श्रेष्ठ ज्ञानं पूज्यते यश्च देवैः । वाण्या ईशो गीयतेऽमर्त्यनाथै
___ यानित्यं दुःखहर्ता स नाथः ॥२॥ दिव्यं देहं स्वेदमुक्तं सदैव
दुग्धाकारे रक्तमांसे च यस्य । रागाभावोऽदृष्टनीहारमुक्ती.. सोऽयं देवः पातु नित्यं भवान्नः 1. '१४ "शालिन्युक्ता म्तौ तगौ गोऽब्धिलोकैः” इति लक्षणम् । यत्र मगणतगणद्वयं गुरुद्वयं च चेत् चतुर्षु सप्तसु विरामः सा शालिनीत्यर्थः, श्लोकेऽस्मिन् एकादशाक्षरपरिमितः पादो बोध्यः ।
Page #20
--------------------------------------------------------------------------
________________
श्री चैत्यवंदनचतुर्विंशतिः
[ १५ ] (१५) श्रीधर्मनाथचैत्यवन्दनम्
( आख्यानकी") संवादिनी गीर्भुवनत्रयस्य
गिरां चतुष्क्रोशगमा यदीया । अर्ध्या गुणा भानुसुतस्य तस्याऽभिनन्दये चारु चरित्रभावम्
॥१॥ चिन्तामणि धर्मजिनेश्वरं यो
दधाति चित्ते स समीहितं हि । सम्प्राप्नुयाज्ज्ञानसमस्तवित्तं दरिद्रभावं सकलं पिनष्टि
॥२ ॥ लोकाब्धिपारप्रगतो महेशो
___जनं तथा पारयति प्रभु यः। श्री वीतरागः स उपासनीयः
सदैव सध्यानविशिष्टचित्तः ॥३॥ १५ " आख्यातकी तौ जगुरू ग ओजे जतावनोजे जगुरू गुरुश्चेत्” इति लक्षणम् । यत्र प्रथमतृतीयपादयोः त-त-जगणा द्वौ च गुरू स्तः द्वितीयचतुर्थपादयोर्ज-त-जगणा द्वौ गुरू च सा आख्यातकीत्यर्थः, अपरनामाख्यानकी । श्लोकेऽस्मिन् एकादशाक्षरपरिमितः पादो बोध्यः ।
Page #21
--------------------------------------------------------------------------
________________
[१६]
श्रीमद्विजयलब्धिसूरीश्वरप्रणीता(१६) श्रीशान्तिनाथचैत्यवन्दनम्
( इन्द्रवी ) श्रीशान्तिनाथो भविभिर्विचिन्त्यो
गर्भेऽपि सोऽत्राकृत शान्तिभावम् । रोग प्रणाश्य स्वविशेषपुण्या
दापनिजं नाम गुणाभिरामम् येन स्वचक्रित्वनिधी विहाय
क्षणाद्धता संयमराज्यलक्ष्मीः । मोहं प्रचूर्यापि विशालशक्त्या
कैवल्यलक्ष्मीरवतु प्रभुस्स: ॥२॥ लक्षाधिकद्वानवतिं सहस्रं
मुक्त्वा गणं स्त्रैणमगाद्वनं यः । आत्मीयशुद्धिं परमामकार्षी
देवाधिदेवः शिवसम रातु १६ “स्यादिन्द्रवज्रा यदि तौ जगौ गः” इति लक्षणम् । यत्र तगणद्वयं जगणो गुरूद्वयं च स्यात् तत्र इन्द्रवज्रानाम इत्यर्थः । श्लोकेऽस्मिन् एकादशाक्षरपरिमितः पादो बोध्यः ।
Page #22
--------------------------------------------------------------------------
________________
श्री चैत्यवंदनचतुर्विंशतिः
( १७ )
श्री कुन्थुनाथचैत्यवन्दनम्
१७
(मजुभाषिणी )
जिनकुन्थुनाथ ! अतिविश्रुतो भवान् जनतापनोदनविधौ शशी यथा ।
रसखण्ड भूमिमपहाय संयमं
परिगृह्य केवलधियं ललौ प्रभो !
मम जीवनेश ! नतिसञ्चयः पदोस्तव शुद्धयोर्भवतु पारमार्थिक ! | जगति त्वमेव शरणं भवे भवे
चरण प्रदाय नय मोक्षसद्म माम्
समकर्महारक ! दयामहोदधे !
मम चित्तवित्ततनवः प्रभोस्तव | स्मरणं निरन्तरमपि प्रभावक !
हृदयं च दर्शनमभीप्सतेऽक्षि वै
[ १७ ]
॥ १ ॥
॥ २ ॥
॥ ३ ॥
१७ “सजसा जगौ भवति मञ्जुभाषिणी" इति लक्षणम् । यत्र स-ज-स- जगणा गुरुः सन्ति सा मञ्जुभाषिणीत्युच्यते । लोकेऽस्मिन् त्रयोदशाक्षरपरिमितः पादो ज्ञेयः ॥
२
Page #23
--------------------------------------------------------------------------
________________
[ic ]
( १८ )
श्रीअरनाथचैत्यवन्दनम्
( मौक्तिकमाला)
मन्मथहारी स गुणविहारी
श्रीमद्विजयलब्धि सूरीश्वरप्रणीता
पातु सदा मां शमरसगोभिः |
चक्रिरमां स्वां तृणवदहासीद्यश्शुभचेता जिनवरनेता
रक्षतु मोहान्मथितविमोहः
पापविपाकादरयतिनाथः ।
कल्पनिधानः शशिसमशीतः शैत्यविधाता शिवसुखदाता
त्वं भवपारं नयसि जनानां सञ्चयमिन्दीवरदलनेत्र ! |
मौक्तिकमालां नुतिगणरम्यामर्पय एवं जिन ! तव कण्ठे
॥ १ ॥
॥ २ ॥
॥ ३ ॥
१८ " मौक्तिकमाला यदि भतनाद् गौ” इति लक्षणम् । यत्र त-नगणात् परौ गुरू स्तः सा मौक्तिकमालेत्यर्थः । श्लोकेऽस्मिन् एकादशाक्षरपरिमितः पादो बोध्यः ।
Page #24
--------------------------------------------------------------------------
________________
श्री चैत्यवंदनचतुर्विंशतिः
[१९] ( १९) श्रीमल्लिनाथचत्यवन्दनम्
( इन्द्रवंशी ) श्रीमल्लिनाथो गुणभृजनैनतो
भव्याङ्गिभिस्त्वं संततं समीहितः । कुम्भोद्भवो नः शमजं सुखं सदा
रातात्प्रधानं कलशाङ्कितप्रभुः ॥१॥ कर्मद्रुमोन्मूलनमत्तकुञ्जरो
मोहेभकण्ठीरव आप्तवन्दितः ।। वर्षीयदानेन दरिद्रता नृणां
येनापनीता जयतु प्रभुः प्रभुः ॥ २॥ कालादनन्तानहि विश्रुतं यत्
तीर्थकरत्वं वनिताकुटुम्बके । तदेव लब्ध्वा शुभभाग्ययोगतः
विचित्रमेतद् भवता व्यधायि वै ॥३॥ १९ "स्यादिन्द्रवंशा ततजैरसंयुतैः” इति लक्षणम् । यत्र तस-ज-रगणास्स्युः सा इन्द्रवंशा । श्लोकेऽस्मिन् द्वादशाक्षरपरिमितः पादो बोध्यः ॥
Page #25
--------------------------------------------------------------------------
________________
[२०]
( २० )
श्रीमुनिसुव्रतनाथचैत्यवन्दनम्
( स्त्रीँ ँ )
सुव्रतनामा मम हृदयेशः कामविनाशे महितमहेशः ।
आत्मविकाशप्रहततमिस्रो
भावदिनेशो जयतु जिनेशः
नैकविधानि प्रथिततपांसि
श्रीमद्विजयलब्धिसूरीश्वर प्रणीता
चेतसि धृत्वा हर हर कर्म ।
इत्युपदेशाद्धृतजनदोषो
यच्छतु मुक्तिं शिवसुखकोषः
केवल संविद्विकशितलोको
निर्मलवाण्या हतजनशोकः ।
संसृतिसिन्धुप्रवहणतुल्यो
॥ १ ॥
रक्षतु नित्यं व्यपगतशल्यः
॥ २ ॥
॥ ३ ॥
२० “पञ्चरसैः स्त्री भतनगगैः स्यात्” इति लक्षणम् । यत्र भ-त-नगणास्ततो गुरुद्रयं च चेत् एवं पञ्चषट्सु विरामश्च सा स्त्रीत्यर्थः । श्लोकेऽस्मिन् एकादशाक्षरपरिमितः पादो बोध्यः ॥
Page #26
--------------------------------------------------------------------------
________________
श्री चैत्यवंदनचतुर्विंशतिः
[२१] (२१) श्रीनमिनाथचैत्यवन्दनम्
(कुसुमविचित्रा') भज भज देवं हनधविरामं
वरमतिकान्तं चरणनिशान्तम् । न भजति लोको गमयति जन्म
शरणममुं हा व्यपगतदोषम् गतभवशापं प्रशमरतिन्तं
हृतमतिपापं जगति दुरापम् । नमिजिननाथं कविकृतगाथं
नमति सुरम्यं भवति स धन्यः ॥२॥ हरिहरमान्यं विरतिवदान्यं
भविकशरण्यं यशसि वरेण्यम् । गुणिजनगण्यं रुचिगणधिष्ण्यं ... भजति नितान्तं व्रजति स शान्तिम् ॥३॥
२१ "नयसहितौ न्यौ कुसुमविचित्रा" इति लक्षणम् । यत्र न-य-न-यगणा भवेयुः सा कुसुमविचित्रेत्यर्थः । श्लोकेऽस्मिन् द्वादशाक्षरप्रमाणं चरणं ज्ञेयम् ॥
Page #27
--------------------------------------------------------------------------
________________
[२२]
श्रीमद्विजयलब्धिसूरीश्वरप्रणीता(२२) श्रीनेमनाथचैत्यन्दनम्
(मत्ती ). त्यक्त्वा राजीमतिमतिरूपां
प्राज्यं राज्यं च मुनिपतिर्यः। भिक्षो वं धरति जिनोऽयं
लोकान् पायात् त्रिभुवनदेवः ॥१॥ बाल्यब्रह्मव्रतविमलात्मा
क्षान्त्यम्भोधेरमृतमरीचिः। . आत्मज्योतिर्विमलितलोको
नित्यं नन्द्यादपगतशोकः . ॥२॥ शैवेयो यो निजतनुभासा
जित्वाऽम्भोदं वचनसुधाभिः । वृष्ट्वा तापं जनिजमहार्षीत्
भव्यानां नो भवतु पतिः सः ॥३॥ २२ "ज्ञेया मत्ता मभसगयुक्ता" इति लक्षणम् । यत्र म-भसगणास्ततो गुरु चेत् तदा मत्तेत्युच्यते । श्लोकेऽस्मिन् दशाक्षरप्रमाणं चरणं ज्ञेयम् ।।
Page #28
--------------------------------------------------------------------------
________________
श्री चैत्यवंदनचतुर्विंशति:
( २३ )
श्रीपार्श्वनाथचैत्यवन्दम्
२३
( चञ्चरीकावली )
गुणश्रेणिं शान्तं कामवल्लीकृपाणं बुडत्प्राणित्रातोत्तारणे नौसमानम् ।
अघौघं हन्तारं सेव्यमानं सुभव्यै
नमामि श्रीपार्श्व देवदेवेशपूज्यम्
प्रधानं देवेषु प्राज्ययोगद्धिंदीनं
जगद्वादित्रातं चारुतत्त्वप्रकाशम् । नयन्तं नेतारं शान्तिपीयूष राशि
कषायान्निर्मुक्तं संस्तवीमि स्मरामि
निरीहं निर्द्वन्द्वं दुःखदावाग्निनीरं कृपापारावारं स्वर्णशैलेशधीरम् ।
विकाशे विद्यानां मूलरूपं जिनेशं सदा सेवे पार्श्व नीलजीमूतभासम्
[ २३ ]
11 2 11
॥ २ ॥
॥३॥
२३ " यमौ रौ विख्याता चवरीकावलीगः” इति लक्षणम् । यत्र य-म-र-रगणास्तदनन्तरं गुरु च स्यात् सा चचरीकावलीत्युच्यते । लोकेऽस्मिन् त्रयोदशाक्षरपरिमितः पादो बोध्यः ||
Page #29
--------------------------------------------------------------------------
________________
[[ ]
श्रीमद्विजयलब्धिसूरीश्वर प्रणीता
( २४ )
श्रीमहावीर जिन चैत्यवन्दनम् ( उपेन्द्रवजी )
न वर्णनीयो गुरुभिः प्रभुर्य:
मया कथं वर्णयितुं स शक्यः ? | तथापि वाचालतया स्तवीमि
प्रभो ! गुणांस्ते शशितोऽतिगौरान्
प्रभो ! वचः स्यात्पदलाञ्छितं मे विषं जहार प्रबलं मनोगम् । अनिष्टमेकान्तमयं दयालो !
तोपकारं नहि विस्मरामि
प्रमाणवादः परमप्रतिष्ठो
विवादवैवश्य विनाशकारी ।
तवास्त्यतो वीर ! विशालभावं नमामि सिंहाङ्कितपादपद्मे
नयान् विभज्याद्भुतशास्त्र सिन्धौ विपक्षवादाः प्रभुणा गृहीताः ।
॥ १ ॥
॥ २ ॥
॥३॥
२४ “उपेन्द्रवज्रा जतजास्ततो गौ” इति लक्षणम् । यत्र ज-त- जगणास्ततो द्वौ गुरू च स्याताम् सा उपेन्द्रवज्रोच्यते । लोकेऽस्मिन एकादशाक्षरपरिमितः पादो बोध्यः ॥
Page #30
--------------------------------------------------------------------------
________________
श्री चैत्यवंदनचतुर्विंशतिः
उदन्वतेवाखिल निर्झरिण्यः महानतस्त्वं सकलार्थवित्सु
अनर्घरत्नत्रितयं जगत्यां त्रिशल्यनाशे प्रथितं त्रिशूलम् ।
उपाधिहारि त्वयका व्यकाशि
प्रकृष्टलब्धि प्रणमाम्यतस्त्वाम्
( २५ )
श्री सीमंधर जिन चैत्यवंदनम् ( वातोर्मी ५ )
२५
पञ्चत्रिंशद्गुणपूर्णां गिरन्ते
मृद्वीं मृद्व सुरगेयां मनोज्ञाम्
श्रृण्वन् श्रृण्वन् सुखपाथोधिमग्नो
युष्मद्वयानं मम पापं प्रहर्तृ
प्राकटयं ते गुणपुञ्जो बिभर्त्ति ।
भक्त्याsहं स्यां प्रभुसीमंधर ! द्राक् ॥ १ ॥
नाम्नाsह्लादोऽमरसौख्याद्विशेषो
[ २५ ]
नित्यं सेवे चरणाम्भोजयुग्मम्
11 8 11
11 4 11
॥ २ ॥
२५
" वातोर्मी गदिताम्भौतगौगः " इति लक्षणम् | यत्र म-भ-तगणास्ततो गुरु द्वयं च चेत् सा वातोर्मीत्युच्यते । अस्मिन् श्लोके एकादशाक्षरपरिमितः पादो बोध्यः ॥
Page #31
--------------------------------------------------------------------------
________________
[२६]
श्रीमद्विजयलब्धिसूरीश्वरप्रणीताचारित्रं ते सविधेऽहं कदैत्य
लप्स्ये स्वामिनिति वाञ्च्छा सदा मे । पूर्ति यायात् कृपया स्वच्छचेतः सैवं कुर्यास्सुरनाथाधिनाथ ! ॥३॥
(२६) श्रीसिद्धगिरिचैत्यवन्दनम्
("दोधक वृत्तम् ) कश्चनशैलशिखामुकुटं तं नाभितनूजमनुत्तमरूपम् । आदिजिनेशमहं सुरपूज्यं स्तौमि मुदा गुणरत्नवचोभिः ॥१॥ यत्र पदार्पणतश्शुभभावोऽनन्तगुणः समुदेति जनस्य । मुक्तिमनन्तजनाश्च यतोऽगुस्तं गिरिराजमहं प्रणमामि ॥२॥ तीर्थकरप्रतिमा गुणकान्ता यत्र निरीक्ष्य महागुणभाजः हर्षकराः प्रणता भविलोकास्तं गिरिराजमहं प्रणमामि ॥३॥ सायककोटिमितैर्मुनिवर्यैरादिगणी प्रविधाय च यत्र । मुक्तिमगादुपवासतपस्यां तं गिरिराजमहं प्रणमामि ॥४॥
२६ “ दोधकवृत्तमिदं भभभाद्गौ " इति लक्षणम् यत्र भ-भ-भगणास्ततो द्वौ गुरु च चेत् तद् दोधकवृत्तमुच्यते। अस्मिन् श्लोके एकादशाक्षरपरिमितियुक् पादो ज्ञेयः ।
Page #32
--------------------------------------------------------------------------
________________
श्री चैत्यवंदनचतुर्विंशतिः
[२७] (२७) श्रीसिद्धचक्रचैत्यवन्दनम्
( मैत्तेभविक्रीडितम् ) सकलाभीष्टदमुत्तमं नवपदं सल्लब्धिदं राजता
सुमनोवृक्ष इवास्य तीर्थपतयः सिद्धा मुनीशास्तथा । हितकद्वाचकसाधवश्च सुतपो रत्नत्रयं सुन्दरं
नव शाखाश्च फलं प्रतीतमहिमाऽऽनन्दाब्धिनिःश्रेयसम् ॥१॥ जगती सारमयं महागुणमयं संविन्मयं भामयं
सुमनोध्येयमयं दयारसमयं सिद्धान्तविद्यामयम्। भविनां कर्महरं मनोहरनिधिं श्रीपालपीडाहरं मनसा भक्तियुतः स्तवीमि सततं श्रीसिद्धचक्रं वरम् ॥ २ ॥ असुमत्कर्महरं सुदर्शनमिदं चक्रं वरं भासते गुणसंस्थानजुषां यदर्चनबलान्नित्यं गुणो वर्धते । अमृतस्थानपिपासुभव्यजनतानिर्बाधसत्स्यन्दनं जगतीव्यापकमेतदेव भजतां श्रीसिद्धचक्रं परं ॥३॥
२७ " सभरान् मौयलगास्त्रयोदशयतिमत्तेभविक्रीडितम्" इति लक्षणम् । यत्र स-भ-र-न-म-यगणास्ततो लघुगुरूचेत् तदा मत्ते भविक्री डितमित्युच्यते अस्य वृत्तस्य त्रयोदशभिः सप्तभिश्च वर्णैयतिर्भवति विंशत्यक्षरपरिमाणवत् चरणमिति विज्ञेयम् ।
Page #33
--------------------------------------------------------------------------
________________
[ २८ ]
श्रीमद्विजयलब्धिसूरीश्वर प्रणीता
( २८ ) श्री पर्युषण पर्व चैत्यवन्दनम् ( स्रग्विणी )
प्राणिनां वार्षिकं पर्व सन्तारकं वारकं कर्मणामापदां हारकम् । नाशकं दुर्गतेः संपदां कारकं
सर्वपर्वोत्तमं संसृतेः पारकम्
स्वर्गसंदायकं सद्गुणस्मारकं
प्रेरकं ज्योतिषां दुर्हृदां दारकम् । रक्षकं मृत्युतो दुर्मतेर्भञ्जकं
तीर्थपैः प्रोक्तमेतद्ध्रुवं सेव्यताम् ( युग्मम् ) ॥ २ ॥
यस्य सेवामृते नारकं चारकं
संधृतं भूरिशो जन्तुना दृश्यते क्लेशहृच्छुद्धिकृद् भीतिहृन्मुक्तिकृत्
भावुकं भावतस्तद्भजन्तां जनाः
यत्र तीर्थंकराणां चरित्रं महद् गीयते श्रयते भाग्यवद्भिर्जनैः ।
पट्टपंक्तिर्मुनेशिक्षण वर्ण्यते
॥ १ ॥
भावुकं भावतः तद्भजन्तां जनाः
11 3 11
118 11
२८ " रैश्चतुर्भिर्युतास्रगविणी सम्मता” इति लक्षणम् । यत्र चत्वारो र गणास्स्युः सा स्रग्विणीत्युच्यते । अस्मिन् श्लोके द्वादशाक्षरपरिमाणचरणमवसेयम् ।
Page #34
--------------------------------------------------------------------------
________________
श्री चैत्यवदनचतुर्विंशतिः
[२९] (२९) श्रीज्ञानपञ्चमीचैत्यवन्दनम्
(प्रमदानन) शुभचित्तदायकविश्वनायकवीरनाथविकासितं
सदसत्पदार्थविवेचनाचणबुद्धिपर्वसमुज्वलम् । मतिमान्द्यपङ्कविशोधकं सुखकारकं त्वरितं जनाः सितकार्तिके शुभपञ्चमीदिवसे हृदा समुपास्यताम् ॥ १ ॥ अतिमोहगाढतमिस्रहारकभानुपश्चचिदर्चिता
भुवनाऽखिलोच्चशुभालिसस्यसमुद्भवाम्बुदसन्निभा । सकलात्मसद्गुणवाटिकासुमराजिफुल्लमधूपमा सितपञ्चमीषु यथागमं भविनोऽनिशं समुपास्यताम् ॥२॥ गुणमञ्जरीवरदत्तसर्वरुजां विनाशनतोऽधिकं प्रथितं क्षितौ शुभपञ्चमीव्रतमेतकद् भविनां हितम् । गुणरूपधीसमुपासनात् समुपासिता निखिला जिनाः भविभिः समीहितसाधनं कलिबाधनं समुपास्यताम् ॥३॥
२९ " सजजाभरौ सलगाश्च चेदुदितं तदा प्रमदाननम् " इति लक्षणम् । यत्र स-ज-ज-भ-र-सगणास्ततो लघुगुरुद्वयं च चेत् तदा प्रमदाननमित्युच्यते । अस्मिन् श्लोके विंशत्यक्षरपरिमितः पादो बोध्यः .. ..
.
Page #35
--------------------------------------------------------------------------
________________
सपना
[३०]
श्रीमद्विजयलन्धिसूरीश्वरप्रणीता(३०) श्रीमौनैकादशी चैत्यवन्दनम्
( मेघविस्फूर्जिता) सिते मार्गे मासे सुगुणकरमेकादशीपर्व रुच्यं
श्रिया युक्तं शुद्धं प्रवरमुनिभिस्सेवितं सौम्यभावैः । हरेः प्रश्नात् सारं प्रकटितमिदं नेमिना तीर्थपेन
धियो वृद्ध्यै नित्यं शिवसदनदं भावुका ! आचरन्तु ॥१।। जिनानामभ्रेषुक्षितिमितिककल्याणकं शर्मदायि
तिथौ यस्यां जातं दुरिततिमिरश्रेणिहन्त्र्यां समन्तात् । पवित्रां तां हित्वा प्रवरमतिभिः पूज्यमाना सुरेन्द्र
भवाहेर्भातीनां गरुडनिवहां काऽपरा सेवनीया ? ॥ २ ॥ तिथावस्यां मौनं समुपगतवच्छेष्ठिनः सुव्रतस्य
गृहं दग्धं नो वै नगरदहने तत्परेणाऽग्निनाऽपि । मनोवाक्कायानां नियमनकरी स्तूयमाना जिनेशै
स्सदा सेव्या भव्यैर्वितरतु शिवं भक्तितोऽनुष्ठिता मे ॥३॥ __३० “ रसत्वश्वैयौंन्सौररगुरुयुतौ मेघविस्फूर्जितास्यात् " इति लक्षणम् । यत्र-य-म-न-स-र-र-गणास्ततो गुरुश्व षट् षटू सप्तभिश्च वर्णविरामः स्यात् सा मेघविस्फूर्जिता । अस्मिनश्लोके एकोनविंशत्यक्षरपरिमितः पादो विज्ञेयः ।
Page #36
--------------------------------------------------------------------------
________________
श्री चैत्यवंदन चतुर्विंशति:
( ३१ )
श्री ऋषभानन जिनचैत्यवन्दनम्
( स्वागता छदैः )
[३१]
लोकपूज्यमृषभानननाथं मन्मथाग्निशमने जलकल्पम् । आत्मशुद्धिकरमुत्तमविम्बं तोष्टवीमि विभुकीर्तिमनर्घम् ॥१॥ जन्ममृत्युहरणे धृतशक्तिं मुक्तये नरसुरैः कृतभक्तिम् । शाश्वतं सुगुणमौक्तिकशुक्तिं तोष्टवीमि विभुकीर्तिमनर्धम् ॥२॥ दीनहीन जनतावनदक्षं सर्वजीवहितताकृतशिक्षम् । कालनाशकरणे दृढशक्तिं तोष्टवीमि विभ्रुकीर्तिमनर्घम् ||३||
( ३२ )
श्रीचन्द्रानन जिन चैत्यवन्दनम् ( विपरीता ख्यातकी छन्दः )
जिनेन्द्र चन्द्रानन नामकन्तम् पूतं पुनानं सकलां त्रिलोकीम् । विशालकान्ति विशदाशयं वै विद्यासमुद्रं प्रणमामि नित्यम् ॥ १ ॥
३१ " स्वागतेतिरनभाद्गुरुयुग्मम् ” इति लक्षणम् । यत्र र-न- भगणास्ततो गुरु युग्मं चेत् तदा स्वागतेत्युच्यते । अस्मिन् श्लोके एकादशाक्षरपरिमितः पादो बोध्यः ।
३२ " जतौ जगौ गोविषमे समे चेत् । तौ जगौ ग एषा विपरीत पूर्वा इति लक्षणम् । यत्र विषमे पादे ज-त- जगणा
""
Page #37
--------------------------------------------------------------------------
________________
[ ३२ ]
श्रीमद्विजयलब्धिसूरीश्वर प्रणीता
तमः परं भास्वररूपमूर्तिं विस्फूर्तिमन्तं जननं गुणानाम् । कलाकलापं भवतारणाय गृह्णन्तमेनं प्रणमामि नित्यम् ॥ २ ॥
जगत्रयीतारक देवदेवमात्माभिरामं कमलाक्षमीशम् । सुलब्धिदातारमनङ्गकेतुं विश्वाभिवन्द्यं प्रणमामि नित्यम् ॥ ३ ॥
( ३३ ) श्रीवारिषेणजिनचैत्यवन्दनम् ( प्रमाणिका छन्दः )
जिनेश वारिषेणतो भवाब्धिपारगा जनाः । भवन्ति तेन भावुका भजन्तु तं निरन्तरम् अनन्तशक्तिशालिनं गुणालिरत्नमालिनम् । नमाम्यनादिकालिकं विशुद्धबुद्धिदायकम्
विशिष्टदेवपूजितं सदेव शाश्वतं जिनम् ।
सहस्रभानुभासुरं दयाकरं स्तवीम्यहम्
11 2 11
॥ २ ॥
॥ ३ ॥
स्ततो गुरुद्वयं च चेत् समे पादे त-त- जगणास्ततो गुरू च चेत् सा विपरीताख्यातकी भवति । श्लोकेऽस्मिन् एकादशाक्षरपरिमितश्चरणमवसेयम् |
३३ " प्रमाणिका जरौ लगौ ” इति लक्षणम् । यत्र ज-रं गणौ ततः लघुगुरू चेत् तदा प्रमाणिकानाम | अस्मिन् लोके अष्टाक्षरपरिमितः पादो बोध्यः ।
Page #38
--------------------------------------------------------------------------
________________
श्री चैत्यवंदनचतुर्विंशतिः
[३३] अशेषजन्तुरक्षणे कृतादरो मुनीश्वरैः।
जिनेशकर्मकार्यभूदिति श्रयाम्यहं मुदा ॥४॥ निमजतां भवाम्बुधौ जिनोन्तरीपवन्मतः। विपाकतः सुकर्मणां स्मराम्यहं हृदा ततः ॥५॥
(३४) श्रीवर्धमानजिनचैत्यवन्दनम्
( प्रहर्षिणी छन्दैः) तीर्थेशं रिपुविजयोन्नतं महान्तं
विश्वेशं जनततिपालने समर्थम् । दुःखाब्धावुडुपनिभं प्रशान्तमूर्ति
नित्यस्थं प्रणमत वर्धमानबिम्बम् ॥१॥ ऊर्ध्वस्थं नरभुवनेऽपि राजमानं
पाताले सुरनिकरैः सदाच॑मानम् । ३४ " म्नौ नौ गस्त्रि दशयतिः प्रहर्षिणीऽयम्" इति लक्षणम् । यत्र म-न-ज-रगणास्ततो गुरुश्चेत् विभिर्दशभिश्चयतिः स्यात् तहि प्रहर्षिणीत्युच्यते । श्लोकेऽस्मिन् त्रयोदशाक्षरपरिमितभारणमवसेयम् ।
लक्षणानि मयाऽलेखि छन्दसां ज्ञानहेतवे । सूरीशैः कृतकाव्यानां बालविक्रमभिक्षुणा ॥
Page #39
--------------------------------------------------------------------------
________________
[ ३४ ]
श्रीमद्विजयलब्धिसूरीश्वरप्रणीता
॥२॥
मोहद्यं वरसुखदं विकासजुष्टं
नित्यस्थं प्रणमत वर्धमानबिम्बम् भावारिप्रमथनविक्रमं जिनेन्द्र
दातारं प्रणतजनस्य सद्गुणानाम् । त्रातारं भवभयभीतभावुकानां
नित्यस्थं प्रणमत वर्धमानबिम्बम्
॥३॥
इति श्रीमद्विजयलब्धिसूरीश्वरविरचिता
चैत्यवन्दनचतुर्विंशतिः ---: समाप्ता :
APPAYPNOR
Me
Page #40
--------------------------------------------------------------------------
________________ / חכחכחכחב תכחכחכחכתכתב LCUCULUE UCUCUCUCUZ LCULUCUC UCUD UCULLUCLCULUS הכתבהכתבה תכתבתכתבתכתב श्री लब्धिसूरीश्वर जैन ग्रन्थमाला / 0-8-0 0-12 १जैनव्रतविधिसंग्रह 2 हीरप्रश्नोत्तराणि 3 श्रीपालचरित्रम् 4 तत्वन्यायविभाकरः 5 पंचसूत्रम् 6 हरिश्चन्द्रकथानकम् 7 वैराग्यरसमंजरी 8 चैत्यवंदनचतुर्विंशतिः 9 कविकुलकिरीट 10 मूर्तिमंडन 11 आरंभसिद्धि 卐 UCULUI:UPU. EUCULUCULUI תבחככתכחב תבחבובתבחבת