________________
[२२]
श्रीमद्विजयलब्धिसूरीश्वरप्रणीता(२२) श्रीनेमनाथचैत्यन्दनम्
(मत्ती ). त्यक्त्वा राजीमतिमतिरूपां
प्राज्यं राज्यं च मुनिपतिर्यः। भिक्षो वं धरति जिनोऽयं
लोकान् पायात् त्रिभुवनदेवः ॥१॥ बाल्यब्रह्मव्रतविमलात्मा
क्षान्त्यम्भोधेरमृतमरीचिः। . आत्मज्योतिर्विमलितलोको
नित्यं नन्द्यादपगतशोकः . ॥२॥ शैवेयो यो निजतनुभासा
जित्वाऽम्भोदं वचनसुधाभिः । वृष्ट्वा तापं जनिजमहार्षीत्
भव्यानां नो भवतु पतिः सः ॥३॥ २२ "ज्ञेया मत्ता मभसगयुक्ता" इति लक्षणम् । यत्र म-भसगणास्ततो गुरु चेत् तदा मत्तेत्युच्यते । श्लोकेऽस्मिन् दशाक्षरप्रमाणं चरणं ज्ञेयम् ।।