________________
श्री चैत्यवंदनचतुर्विंशतिः
( १७ )
श्री कुन्थुनाथचैत्यवन्दनम्
१७
(मजुभाषिणी )
जिनकुन्थुनाथ ! अतिविश्रुतो भवान् जनतापनोदनविधौ शशी यथा ।
रसखण्ड भूमिमपहाय संयमं
परिगृह्य केवलधियं ललौ प्रभो !
मम जीवनेश ! नतिसञ्चयः पदोस्तव शुद्धयोर्भवतु पारमार्थिक ! | जगति त्वमेव शरणं भवे भवे
चरण प्रदाय नय मोक्षसद्म माम्
समकर्महारक ! दयामहोदधे !
मम चित्तवित्ततनवः प्रभोस्तव | स्मरणं निरन्तरमपि प्रभावक !
हृदयं च दर्शनमभीप्सतेऽक्षि वै
[ १७ ]
॥ १ ॥
॥ २ ॥
॥ ३ ॥
१७ “सजसा जगौ भवति मञ्जुभाषिणी" इति लक्षणम् । यत्र स-ज-स- जगणा गुरुः सन्ति सा मञ्जुभाषिणीत्युच्यते । लोकेऽस्मिन् त्रयोदशाक्षरपरिमितः पादो ज्ञेयः ॥
२