________________
श्री चैत्यवंदनचतुर्विंशतिः
[२७] (२७) श्रीसिद्धचक्रचैत्यवन्दनम्
( मैत्तेभविक्रीडितम् ) सकलाभीष्टदमुत्तमं नवपदं सल्लब्धिदं राजता
सुमनोवृक्ष इवास्य तीर्थपतयः सिद्धा मुनीशास्तथा । हितकद्वाचकसाधवश्च सुतपो रत्नत्रयं सुन्दरं
नव शाखाश्च फलं प्रतीतमहिमाऽऽनन्दाब्धिनिःश्रेयसम् ॥१॥ जगती सारमयं महागुणमयं संविन्मयं भामयं
सुमनोध्येयमयं दयारसमयं सिद्धान्तविद्यामयम्। भविनां कर्महरं मनोहरनिधिं श्रीपालपीडाहरं मनसा भक्तियुतः स्तवीमि सततं श्रीसिद्धचक्रं वरम् ॥ २ ॥ असुमत्कर्महरं सुदर्शनमिदं चक्रं वरं भासते गुणसंस्थानजुषां यदर्चनबलान्नित्यं गुणो वर्धते । अमृतस्थानपिपासुभव्यजनतानिर्बाधसत्स्यन्दनं जगतीव्यापकमेतदेव भजतां श्रीसिद्धचक्रं परं ॥३॥
२७ " सभरान् मौयलगास्त्रयोदशयतिमत्तेभविक्रीडितम्" इति लक्षणम् । यत्र स-भ-र-न-म-यगणास्ततो लघुगुरूचेत् तदा मत्ते भविक्री डितमित्युच्यते अस्य वृत्तस्य त्रयोदशभिः सप्तभिश्च वर्णैयतिर्भवति विंशत्यक्षरपरिमाणवत् चरणमिति विज्ञेयम् ।