________________
[२६]
श्रीमद्विजयलब्धिसूरीश्वरप्रणीताचारित्रं ते सविधेऽहं कदैत्य
लप्स्ये स्वामिनिति वाञ्च्छा सदा मे । पूर्ति यायात् कृपया स्वच्छचेतः सैवं कुर्यास्सुरनाथाधिनाथ ! ॥३॥
(२६) श्रीसिद्धगिरिचैत्यवन्दनम्
("दोधक वृत्तम् ) कश्चनशैलशिखामुकुटं तं नाभितनूजमनुत्तमरूपम् । आदिजिनेशमहं सुरपूज्यं स्तौमि मुदा गुणरत्नवचोभिः ॥१॥ यत्र पदार्पणतश्शुभभावोऽनन्तगुणः समुदेति जनस्य । मुक्तिमनन्तजनाश्च यतोऽगुस्तं गिरिराजमहं प्रणमामि ॥२॥ तीर्थकरप्रतिमा गुणकान्ता यत्र निरीक्ष्य महागुणभाजः हर्षकराः प्रणता भविलोकास्तं गिरिराजमहं प्रणमामि ॥३॥ सायककोटिमितैर्मुनिवर्यैरादिगणी प्रविधाय च यत्र । मुक्तिमगादुपवासतपस्यां तं गिरिराजमहं प्रणमामि ॥४॥
२६ “ दोधकवृत्तमिदं भभभाद्गौ " इति लक्षणम् यत्र भ-भ-भगणास्ततो द्वौ गुरु च चेत् तद् दोधकवृत्तमुच्यते। अस्मिन् श्लोके एकादशाक्षरपरिमितियुक् पादो ज्ञेयः ।