________________
श्रीमद्विविजयलब्धिसूरीश्वर प्रणीता में
[ ६ ]
क्रौञ्चाङ्कं सुगुणालयं जिनवरं सन्तीर्णदुःखार्णवं आत्मारामपरं विकासकमलं यच्चक्षुषा निर्जितम् । तं लब्ध्यालयमाप्तमन्वहमहं सार्वं जगत्पावनं - मेघात्मोद्भवमार्यधर्मकरणात् सर्वार्थमुख्यं भजे
( ६ )
श्रीपद्मप्रभचैत्यवन्दनम् ( वसन्ततिलक ).
पाद्मप्रभं सुरनराधिपसेव्यमानं
लोकैरगम्य महिमाधिकसौख्यकारि ।
ज्ञानप्रदाय्यखिलकर्मतमः प्रहारि
॥ ३ ॥
नौमि द्वयं चरणयोश्चरणप्रचारि ॥ १ ॥
संसारदुर्जयपयोनिधियानपात्रं
सम्यक्त्वसारसुखदं परमं पुमांसम् । नेत्राब्जभास्करमनङ्गविभङ्गबीजं
सेवे सुरासुरवरार्चित पूतगात्रम्
चञ्चत्प्रकाशनिहतारितमोनिकार्यं विस्तारितातिविशदागमतत्त्वरूपम् ।
66
६ उक्ता वसन्ततिलका तभजा जगौ गः " इति लक्षणम् । यत्र पादे त-भ-ज-जगणास्ततो द्वौ गुरू च चेत् सा वसन्ततिलकेत्यर्थः । श्लोकेऽस्मिन् चतुर्दशाक्षरपरिमितः पादो विज्ञेयः ॥
॥ २ ॥