________________
श्री चैत्यवंदनचतुर्विंशतिः
[ १५ ] (१५) श्रीधर्मनाथचैत्यवन्दनम्
( आख्यानकी") संवादिनी गीर्भुवनत्रयस्य
गिरां चतुष्क्रोशगमा यदीया । अर्ध्या गुणा भानुसुतस्य तस्याऽभिनन्दये चारु चरित्रभावम्
॥१॥ चिन्तामणि धर्मजिनेश्वरं यो
दधाति चित्ते स समीहितं हि । सम्प्राप्नुयाज्ज्ञानसमस्तवित्तं दरिद्रभावं सकलं पिनष्टि
॥२ ॥ लोकाब्धिपारप्रगतो महेशो
___जनं तथा पारयति प्रभु यः। श्री वीतरागः स उपासनीयः
सदैव सध्यानविशिष्टचित्तः ॥३॥ १५ " आख्यातकी तौ जगुरू ग ओजे जतावनोजे जगुरू गुरुश्चेत्” इति लक्षणम् । यत्र प्रथमतृतीयपादयोः त-त-जगणा द्वौ च गुरू स्तः द्वितीयचतुर्थपादयोर्ज-त-जगणा द्वौ गुरू च सा आख्यातकीत्यर्थः, अपरनामाख्यानकी । श्लोकेऽस्मिन् एकादशाक्षरपरिमितः पादो बोध्यः ।