SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ श्री चैत्यवंदनचतुर्विंशतिः ( ११) श्रीश्रेयांसनाथचैत्यवन्दम् ( हरिणी") अवधिरहिता दुःखावस्था विशाल! विनाशिता तव गुणगणस्मृत्योदग्रा समूलतया त्वया । अगणितगुणश्रीश्रेयांस ! प्रबोधविधायक ! __ तदुपकृतिका मालां सारां वहामि जिनेश्वर! ॥१॥ कुसुमधनुपः शक्तिर्यस्मात् विनष्टमहोदया विकसितमतिर्यस्य ध्यानात् दयाविषये सदा । प्रभवति मृतिर्नेयं दुष्टा यदाश्रितभावुके प्रणमततरां तं श्रेयांसं शुभाशयभावतः ॥ २ ॥ कलिमलहृतौ शक्त्यापन्न ! भवाब्धिसुतारक ! ___ विमलमतिभिस्सुष्टज्ञात ! प्रभाकरभास्वर ! । समभिलषितश्रेष्टार्थानां प्रदानपरं वरं हृतरिपुदलं भक्त्याहं त्वां नमामि निरन्तरम् ॥३॥ ११ “रसयुगहयैन्सा नौ स्लौ गो यदा हरिणी तदा" इति लक्षणम् , यत्र पादे न-स-म-र-सगणास्ततो लघुगुरू च चेत्, एवं षट्चतुःसप्तमेषु विरामः सा हरिणीत्यर्थः । श्लोलेऽस्मिन् सप्तदशाक्षरपरिमितः पादोऽवसेयः॥
SR No.007264
Book TitleChaityavandan Chaturvinshati
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1939
Total Pages40
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy