________________
[१२]
श्रीमद्विजयलब्धिसूरीधरप्रणीता
(१२) श्रीवासुपूज्यजिनचैत्यवन्दनम्
( वंशस्थ ) अनन्तविज्ञानविकाशनाद् विभुः
कलाधिपाधिक्यमहोमहोर्मितः । व्यनाशयद् योऽधतमो जिनेश्वरोऽ
नवद्यरूपं विमलं भजामि तम् ॥१॥ स वासुपूज्यो यशसा महोज्वलो
भवार्णवान्मा प्रहतं कुकर्मणा । समागतं श्रीजिनपादपङ्कजं निरन्तरं रक्षतु लोकपावनः
॥२॥ स्मरादिशत्रुक्षयकारि यद्बलं - जगत्तृषाहारि च यद्वचोऽमृतम् । समग्रसंशीतिहरा च यस्य वि
ज्जिनेश्वरं नौमि तमीड्यमीश्वरम् ॥३॥
• १२ “जतौ तु वंशस्थमुदीरितं जरौ” इति हि तत्स्वरूपम् । पत्र पादे ज-त-ज-रा गणा भवेयुः तद्वंशस्थं छन्द इति भावः। पादेऽत्र द्वादशाक्षराणि भवन्ति ।