________________
श्री चैत्यवंदनचतुर्विशतिः
श्रीविमलनाथचैत्यवन्दनम्
( भुजङ्गप्रयातम् ) नयानेकवादप्रमाणप्रतिष्ठा
सदा ज्ञानदात्री विधात्री चरित्रम् । यदीया सुवाणी कृपाणी पवित्रा __ कृताऽशेषकर्मवजस्य प्रणाशे
॥१ ॥ जिनेशो दिनेशो जगजीवनेता
चिदानन्दरूपस्तमोनाशकारी । वरेण्यो वराहाङ्कितो देवदेवः सदाऽव्याद्विकाशी स शान्तस्वभावः ॥२॥
(युग्मम् ) सपादे शते योजनानां समन्तात्
प्रभावात् प्रभोः सर्ववैरादयो नो । प्रभामंडलं भाति भामण्डलं यत्
ततोऽहं नमामि भ्रमामि प्रभुं नो ॥३॥ १३ " भुजङ्गप्रयातं भवेद्यैश्चतुर्भिः” इत्येवं तत्स्वरूपम् । यस्य यगणचतुष्टयमण्डिताः पादा भवेयुस्तद्भुजङ्ग प्रयातं छन्दः । द्वादशाक्षरविलसितः पादोऽत्रावसेयः ।।