SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्री चैत्यवंदनचतुर्विंशतिः [३३] अशेषजन्तुरक्षणे कृतादरो मुनीश्वरैः। जिनेशकर्मकार्यभूदिति श्रयाम्यहं मुदा ॥४॥ निमजतां भवाम्बुधौ जिनोन्तरीपवन्मतः। विपाकतः सुकर्मणां स्मराम्यहं हृदा ततः ॥५॥ (३४) श्रीवर्धमानजिनचैत्यवन्दनम् ( प्रहर्षिणी छन्दैः) तीर्थेशं रिपुविजयोन्नतं महान्तं विश्वेशं जनततिपालने समर्थम् । दुःखाब्धावुडुपनिभं प्रशान्तमूर्ति नित्यस्थं प्रणमत वर्धमानबिम्बम् ॥१॥ ऊर्ध्वस्थं नरभुवनेऽपि राजमानं पाताले सुरनिकरैः सदाच॑मानम् । ३४ " म्नौ नौ गस्त्रि दशयतिः प्रहर्षिणीऽयम्" इति लक्षणम् । यत्र म-न-ज-रगणास्ततो गुरुश्चेत् विभिर्दशभिश्चयतिः स्यात् तहि प्रहर्षिणीत्युच्यते । श्लोकेऽस्मिन् त्रयोदशाक्षरपरिमितभारणमवसेयम् । लक्षणानि मयाऽलेखि छन्दसां ज्ञानहेतवे । सूरीशैः कृतकाव्यानां बालविक्रमभिक्षुणा ॥
SR No.007264
Book TitleChaityavandan Chaturvinshati
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1939
Total Pages40
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy