SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ श्री चैत्यवदनचतुर्विंशतिः [२९] (२९) श्रीज्ञानपञ्चमीचैत्यवन्दनम् (प्रमदानन) शुभचित्तदायकविश्वनायकवीरनाथविकासितं सदसत्पदार्थविवेचनाचणबुद्धिपर्वसमुज्वलम् । मतिमान्द्यपङ्कविशोधकं सुखकारकं त्वरितं जनाः सितकार्तिके शुभपञ्चमीदिवसे हृदा समुपास्यताम् ॥ १ ॥ अतिमोहगाढतमिस्रहारकभानुपश्चचिदर्चिता भुवनाऽखिलोच्चशुभालिसस्यसमुद्भवाम्बुदसन्निभा । सकलात्मसद्गुणवाटिकासुमराजिफुल्लमधूपमा सितपञ्चमीषु यथागमं भविनोऽनिशं समुपास्यताम् ॥२॥ गुणमञ्जरीवरदत्तसर्वरुजां विनाशनतोऽधिकं प्रथितं क्षितौ शुभपञ्चमीव्रतमेतकद् भविनां हितम् । गुणरूपधीसमुपासनात् समुपासिता निखिला जिनाः भविभिः समीहितसाधनं कलिबाधनं समुपास्यताम् ॥३॥ २९ " सजजाभरौ सलगाश्च चेदुदितं तदा प्रमदाननम् " इति लक्षणम् । यत्र स-ज-ज-भ-र-सगणास्ततो लघुगुरुद्वयं च चेत् तदा प्रमदाननमित्युच्यते । अस्मिन् श्लोके विंशत्यक्षरपरिमितः पादो बोध्यः .. .. .
SR No.007264
Book TitleChaityavandan Chaturvinshati
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1939
Total Pages40
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy