SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ सपना [३०] श्रीमद्विजयलन्धिसूरीश्वरप्रणीता(३०) श्रीमौनैकादशी चैत्यवन्दनम् ( मेघविस्फूर्जिता) सिते मार्गे मासे सुगुणकरमेकादशीपर्व रुच्यं श्रिया युक्तं शुद्धं प्रवरमुनिभिस्सेवितं सौम्यभावैः । हरेः प्रश्नात् सारं प्रकटितमिदं नेमिना तीर्थपेन धियो वृद्ध्यै नित्यं शिवसदनदं भावुका ! आचरन्तु ॥१।। जिनानामभ्रेषुक्षितिमितिककल्याणकं शर्मदायि तिथौ यस्यां जातं दुरिततिमिरश्रेणिहन्त्र्यां समन्तात् । पवित्रां तां हित्वा प्रवरमतिभिः पूज्यमाना सुरेन्द्र भवाहेर्भातीनां गरुडनिवहां काऽपरा सेवनीया ? ॥ २ ॥ तिथावस्यां मौनं समुपगतवच्छेष्ठिनः सुव्रतस्य गृहं दग्धं नो वै नगरदहने तत्परेणाऽग्निनाऽपि । मनोवाक्कायानां नियमनकरी स्तूयमाना जिनेशै स्सदा सेव्या भव्यैर्वितरतु शिवं भक्तितोऽनुष्ठिता मे ॥३॥ __३० “ रसत्वश्वैयौंन्सौररगुरुयुतौ मेघविस्फूर्जितास्यात् " इति लक्षणम् । यत्र-य-म-न-स-र-र-गणास्ततो गुरुश्व षट् षटू सप्तभिश्च वर्णविरामः स्यात् सा मेघविस्फूर्जिता । अस्मिनश्लोके एकोनविंशत्यक्षरपरिमितः पादो विज्ञेयः ।
SR No.007264
Book TitleChaityavandan Chaturvinshati
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1939
Total Pages40
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy