________________
श्री चैत्यवंदन चतुर्विंशति:
( ३१ )
श्री ऋषभानन जिनचैत्यवन्दनम्
( स्वागता छदैः )
[३१]
लोकपूज्यमृषभानननाथं मन्मथाग्निशमने जलकल्पम् । आत्मशुद्धिकरमुत्तमविम्बं तोष्टवीमि विभुकीर्तिमनर्घम् ॥१॥ जन्ममृत्युहरणे धृतशक्तिं मुक्तये नरसुरैः कृतभक्तिम् । शाश्वतं सुगुणमौक्तिकशुक्तिं तोष्टवीमि विभुकीर्तिमनर्धम् ॥२॥ दीनहीन जनतावनदक्षं सर्वजीवहितताकृतशिक्षम् । कालनाशकरणे दृढशक्तिं तोष्टवीमि विभ्रुकीर्तिमनर्घम् ||३||
( ३२ )
श्रीचन्द्रानन जिन चैत्यवन्दनम् ( विपरीता ख्यातकी छन्दः )
जिनेन्द्र चन्द्रानन नामकन्तम् पूतं पुनानं सकलां त्रिलोकीम् । विशालकान्ति विशदाशयं वै विद्यासमुद्रं प्रणमामि नित्यम् ॥ १ ॥
३१ " स्वागतेतिरनभाद्गुरुयुग्मम् ” इति लक्षणम् । यत्र र-न- भगणास्ततो गुरु युग्मं चेत् तदा स्वागतेत्युच्यते । अस्मिन् श्लोके एकादशाक्षरपरिमितः पादो बोध्यः ।
३२ " जतौ जगौ गोविषमे समे चेत् । तौ जगौ ग एषा विपरीत पूर्वा इति लक्षणम् । यत्र विषमे पादे ज-त- जगणा
""