SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ [२] श्रीमद्विजयलब्धिसूरीश्वरप्रणीताजगदनीहितदुःखविदारक प्रवरबुद्धिरमोदयधारकम् । शुचिगुणैर्जगदुज्ज्वलकारकं वितथकार्यविकारविनाशकम् ॥२॥ नतसुरासुरनाथसमाजकं । सकलसन्मतिभावविकाशकम् । हृदयमाथकमन्मथमाथकं नमत नाथमनाथसहायकम् [विशेषकम् ] ॥३॥ श्रीअजितनाथचैत्यवन्दनम् ( तोटकम् ) विजयासुतवन्दनतोऽतिभवा जगतीह समीहितभावधरा । जनताऽजनि मोक्षविलासपरा प्रणमामि ततोऽहमिमं प्रमुदा ॥१॥ तगणः (55। तगणः), यत्र वर्णत्रयमपि गुरुः स मगणः (sss मगण:), एवं वर्णास्त्रयोऽपि लघवश्वेत् स नगणो बोध्यः (। नगणः) - गु इति ग इति च गुरोरसंज्ञा, लु इति ल इति च लघोस्संज्ञा 'संयुक्ताचं दीर्घ सानुस्वारं विसर्गसंमिश्रं विज्ञेयमक्षरं गुरु पादान्तस्थं विकल्पेन' ॥ इति लक्षणेन गुरुर्बोध्यः, तदितरो वर्णस्तु लघुरवसेयः॥ - २ " इह तोटकमम्बुधिसैः प्रमितम्” इति लक्षणम् । यत्र पादे चत्वारः सगणास्सन्ति तत् तोटकमित्यर्थः । श्लोकेऽस्मिन् द्वादशाक्षरपरिमितः पादो बोध्यः ॥
SR No.007264
Book TitleChaityavandan Chaturvinshati
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1939
Total Pages40
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy