________________
श्री चैत्यवंदनचतुर्विंशतिः ।
[३] अचिरात् सुचिरार्जितपापहरं भविनां भवहारकभावधरम् । दमिनां हृदये रमणं शरणं विबुधानतपादसरोजयुगम् ॥२॥ जगतामहितं सुहितं सुखदं गुणिभिर्गणितं गुणदं गुणिनम् । न कथं सुभजेयमहन्तमिभं मदनादिकमूलसमूलकषम् ॥३॥
(३) श्रीसंभवनाथजिनचैत्यवन्दनम्
( मन्दाक्रान्ता) सेनासूनुं गुणगणधरं पावनी यस्य वाणी
संसाराब्धेर्भवभयहरा तारयत्येव भव्यान् । शक्रेशाद्यैस्सुरगिरिवरे निर्मितश्चाभिषेकः
पूज्यं वन्दे सुरनरनतं संभवं तं जिनेन्द्रम् ॥१॥ दिव्यं ज्योतिस्तिमिरनिवहं हन्ति यस्य क्षणेन ।
लोकालोकप्रथितमहिमात्यन्तभास्वत् स्वरूपम् ज्ञेयं ध्येयं विभुपदधरं सार्वभौमैमुनीशैः ___तं तोष्टोमि प्रवरपदवी प्राप्तुकामः प्रकामम् ॥२॥
३ “मन्दाक्रान्ता जलधिषडगैम्भौं नतो ताद्गुरू चेत्” इति लक्षणम् । यत्र पादे म-भ-न-त-तगणास्ततो द्वौ गुरू चेदेवं चतुर्थषष्ठसप्तमेषु विरामश्च सा मन्दाक्रान्तेत्यर्थः । श्लोकेऽस्मिन् सप्तदशाक्षरपरिमितः पादो बोध्यः ।