SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ [४] श्रीमद्विविजयलब्धिसूरीश्वरप्रणीताआत्मारामं कमलविमलं विश्वलब्धिस्वरूपं ज्ञानागारं वरमतिकरं योगिनां गभ्यरूपम् । शान्तं दान्तं विशदयशसं तीर्णसंसारकूपं तायाङ्कन्तं मनसिजहरं नौमि विश्वस्य भूपम् ॥३॥ (४) श्रीअभिनन्दननाथचैत्यवन्दनम् (शिखरिणी' ) न कश्चित् संसारे शरणमिह तं साम्बरिमृते गुणच्छाया यस्य प्रबलविषयातापहरमा । सदा जापात् पापं प्रभवति न च प्राणिनिवहे निरातङ्गं देवं भज हतदरं सौख्यभवनम् ॥१॥ विशेषज्ञ वैद्यं विमलनयनं चन्द्रवदनं महारोगारीणां हरणविषये प्राप्तयशसम् । महागोपं वन्दे वितिमिरकर भाग्यभवनं भवाब्धेनिस्तारे सबलतरणिं मुक्तिगमकम् ॥२॥ ४"रसै रुद्रैश्छिन्ना यमनसभला गः शिखरिणी" इति लक्षणम् । यत्र पादे य-म-न-स-भगणास्ततो लघुगुरुश्चदेवं षडेकादशसु विरामश्च सा शिखरिणीत्यर्थः । श्लोकेऽस्मिन् सप्तदशाक्षरपरिमितः पादो ज्ञेयः ॥
SR No.007264
Book TitleChaityavandan Chaturvinshati
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1939
Total Pages40
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy