SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ [ ] श्रीमद्विजयलब्धिसूरीश्वरप्रणीता (८) श्रीचन्द्रप्रभचैत्यवन्दनम् (पञ्चचामरम्) नमामि चन्द्रनामतः प्रभाधिकं प्रभुं वरं शुभात्मतीक्ष्णचिन्तनाजितारिमोहमुद्भभटम् । अवाप्तकेवलोवलप्रभाप्रसारभासुरं नतासुरामरेश्वरं विकाशिपादपङ्कजम् ॥१॥ अनङ्गरङ्गभञ्जकं विशुद्धबुद्धिरञ्जकं विलुप्तसर्वरागकं जगद्विकारनाशकम् । विशुद्धधर्मदायकं कुकर्मनाशसायक श्रयामि मुक्तिगामुकं वितीर्णसर्वभावुकम् ॥२॥ अवद्यवर्गभेदकं सुखापवर्गकारक विशिष्टसौख्यधारकं विनीतदुःखवारकम् । अनादिदोषहारकं चरित्रबोधिदानतः स्तवीमि तारकं परं मिथोऽदयातमोहरम् ॥३॥ ८" जरौ अजागुरष्टभिर्यतिश्च पञ्चचामरम्” इति लक्षणम् । यत्र पादे ज-र-ज-र-जगणाः सगुरवश्चेत् एवमष्टभि विरामश्च तत् पञ्चचामरम् । श्लोकेऽस्मिन् षोडशाक्षरपरिमिता पादो विज्ञेयः ॥
SR No.007264
Book TitleChaityavandan Chaturvinshati
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1939
Total Pages40
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy