Book Title: Chaityavandan Chaturvinshati
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 31
________________ [२६] श्रीमद्विजयलब्धिसूरीश्वरप्रणीताचारित्रं ते सविधेऽहं कदैत्य लप्स्ये स्वामिनिति वाञ्च्छा सदा मे । पूर्ति यायात् कृपया स्वच्छचेतः सैवं कुर्यास्सुरनाथाधिनाथ ! ॥३॥ (२६) श्रीसिद्धगिरिचैत्यवन्दनम् ("दोधक वृत्तम् ) कश्चनशैलशिखामुकुटं तं नाभितनूजमनुत्तमरूपम् । आदिजिनेशमहं सुरपूज्यं स्तौमि मुदा गुणरत्नवचोभिः ॥१॥ यत्र पदार्पणतश्शुभभावोऽनन्तगुणः समुदेति जनस्य । मुक्तिमनन्तजनाश्च यतोऽगुस्तं गिरिराजमहं प्रणमामि ॥२॥ तीर्थकरप्रतिमा गुणकान्ता यत्र निरीक्ष्य महागुणभाजः हर्षकराः प्रणता भविलोकास्तं गिरिराजमहं प्रणमामि ॥३॥ सायककोटिमितैर्मुनिवर्यैरादिगणी प्रविधाय च यत्र । मुक्तिमगादुपवासतपस्यां तं गिरिराजमहं प्रणमामि ॥४॥ २६ “ दोधकवृत्तमिदं भभभाद्गौ " इति लक्षणम् यत्र भ-भ-भगणास्ततो द्वौ गुरु च चेत् तद् दोधकवृत्तमुच्यते। अस्मिन् श्लोके एकादशाक्षरपरिमितियुक् पादो ज्ञेयः ।

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40