Book Title: Chaityavandan Chaturvinshati
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 26
________________ श्री चैत्यवंदनचतुर्विंशतिः [२१] (२१) श्रीनमिनाथचैत्यवन्दनम् (कुसुमविचित्रा') भज भज देवं हनधविरामं वरमतिकान्तं चरणनिशान्तम् । न भजति लोको गमयति जन्म शरणममुं हा व्यपगतदोषम् गतभवशापं प्रशमरतिन्तं हृतमतिपापं जगति दुरापम् । नमिजिननाथं कविकृतगाथं नमति सुरम्यं भवति स धन्यः ॥२॥ हरिहरमान्यं विरतिवदान्यं भविकशरण्यं यशसि वरेण्यम् । गुणिजनगण्यं रुचिगणधिष्ण्यं ... भजति नितान्तं व्रजति स शान्तिम् ॥३॥ २१ "नयसहितौ न्यौ कुसुमविचित्रा" इति लक्षणम् । यत्र न-य-न-यगणा भवेयुः सा कुसुमविचित्रेत्यर्थः । श्लोकेऽस्मिन् द्वादशाक्षरप्रमाणं चरणं ज्ञेयम् ॥

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40