Book Title: Chaityavandan Chaturvinshati
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 24
________________ श्री चैत्यवंदनचतुर्विंशतिः [१९] ( १९) श्रीमल्लिनाथचत्यवन्दनम् ( इन्द्रवंशी ) श्रीमल्लिनाथो गुणभृजनैनतो भव्याङ्गिभिस्त्वं संततं समीहितः । कुम्भोद्भवो नः शमजं सुखं सदा रातात्प्रधानं कलशाङ्कितप्रभुः ॥१॥ कर्मद्रुमोन्मूलनमत्तकुञ्जरो मोहेभकण्ठीरव आप्तवन्दितः ।। वर्षीयदानेन दरिद्रता नृणां येनापनीता जयतु प्रभुः प्रभुः ॥ २॥ कालादनन्तानहि विश्रुतं यत् तीर्थकरत्वं वनिताकुटुम्बके । तदेव लब्ध्वा शुभभाग्ययोगतः विचित्रमेतद् भवता व्यधायि वै ॥३॥ १९ "स्यादिन्द्रवंशा ततजैरसंयुतैः” इति लक्षणम् । यत्र तस-ज-रगणास्स्युः सा इन्द्रवंशा । श्लोकेऽस्मिन् द्वादशाक्षरपरिमितः पादो बोध्यः ॥

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40