Book Title: Chaityavandan Chaturvinshati
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
[१४]
श्रीमद्विजयलब्धिसूरीश्वरप्रणीता(१४) श्रीअनन्तनाथचैत्यवन्दनम्
( शालिनी) प्राज्यं राज्यं हस्तियथैस्सनाथं . .
त्यक्तं स्त्रैणं रूपलावण्यगेहम् । येनाप्ताथ ख्यातचारित्रलक्ष्मी . स्तं सेवन्तेऽनन्तनाथं हि धन्याः रागद्वेषौ मूलतो यस्य नष्टौ
श्रेष्ठ ज्ञानं पूज्यते यश्च देवैः । वाण्या ईशो गीयतेऽमर्त्यनाथै
___ यानित्यं दुःखहर्ता स नाथः ॥२॥ दिव्यं देहं स्वेदमुक्तं सदैव
दुग्धाकारे रक्तमांसे च यस्य । रागाभावोऽदृष्टनीहारमुक्ती.. सोऽयं देवः पातु नित्यं भवान्नः 1. '१४ "शालिन्युक्ता म्तौ तगौ गोऽब्धिलोकैः” इति लक्षणम् । यत्र मगणतगणद्वयं गुरुद्वयं च चेत् चतुर्षु सप्तसु विरामः सा शालिनीत्यर्थः, श्लोकेऽस्मिन् एकादशाक्षरपरिमितः पादो बोध्यः ।

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40