Book Title: Chaityavandan Chaturvinshati
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 18
________________ श्री चैत्यवंदनचतुर्विशतिः श्रीविमलनाथचैत्यवन्दनम् ( भुजङ्गप्रयातम् ) नयानेकवादप्रमाणप्रतिष्ठा सदा ज्ञानदात्री विधात्री चरित्रम् । यदीया सुवाणी कृपाणी पवित्रा __ कृताऽशेषकर्मवजस्य प्रणाशे ॥१ ॥ जिनेशो दिनेशो जगजीवनेता चिदानन्दरूपस्तमोनाशकारी । वरेण्यो वराहाङ्कितो देवदेवः सदाऽव्याद्विकाशी स शान्तस्वभावः ॥२॥ (युग्मम् ) सपादे शते योजनानां समन्तात् प्रभावात् प्रभोः सर्ववैरादयो नो । प्रभामंडलं भाति भामण्डलं यत् ततोऽहं नमामि भ्रमामि प्रभुं नो ॥३॥ १३ " भुजङ्गप्रयातं भवेद्यैश्चतुर्भिः” इत्येवं तत्स्वरूपम् । यस्य यगणचतुष्टयमण्डिताः पादा भवेयुस्तद्भुजङ्ग प्रयातं छन्दः । द्वादशाक्षरविलसितः पादोऽत्रावसेयः ।।

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40